Tuesday, January 26, 2016

प्रहेलिका

एकस्मिन् परिवारे षट्सदस्या: सन्ति। जननी स्मिता, जनकः रमेशः, ज्येष्ठपुत्रः सुनीलः, 
पुत्रीद्वयं सुशीला सुमती च, कनिष्ठपुत्रः सुशान्तः। एकदा ते चलचित्रमन्दिरं तेषां कार्यानेन 
गन्तुं इच्छन्ति। परन्तु कार्यानेन चत्वारः जनाः एव गन्तुं शक्नुवन्ति । सुनीलः अथवा सुशीला 
एव कार्यानं चालयितुम शक्नोति । स्मितायै सोपानेषु सुनीलस्य साहाय्यम् आवश्यकं, अतः सा 
सुनीलेन विना न गच्छति। रमेशः स्मितया सह सदा विवादं करोति, अतः सा तेन सह कदापि न 
गच्छति। सुशान्तः बालकः, अतः सः जननीं विना कुत्रापि न तिष्ठति। अन्येन केनचित् सह वा 
कञ्चित् विना वा गन्तुं शक्नोति। के के चत्वारः जनाः सम्भूय गन्तुं शक्नुवन्ति? अथवा ते 
चलचित्रदर्शनार्थं कति प्रकारैः चत्वारजनसमूहं कर्तुं शक्नुवन्ति?"

-ज्योति गावडे