Tuesday, December 13, 2016

क: दोष:?

एक: निपुण: मूर्तिकार: आसीत्। स: यदि कस्यापि व्यक्ते: मूर्तिम् न्यर्मत् तर्हि कोपि उभयो: भेदम् ग्न्यातुम् न अशक्नुवत् । स्वस्य निपुणतायाम् तस्य गर्व: अपि आसीत् । स: यदा बहुव्रुद्ध: अभवत्,  तस्य मरणस्य समय: समीपम् आगच्छत् च, तदा स्वस्य नवमूर्ती: निर्माय ग्रुहे अस्थापयत् । एके दिने यमदूता: तम् नेतुम् आगच्छन्। तद् ग्न्यात्वा स: नवमूर्तीनाम् समीपे दशम् मूर्तीएव अतिष्ठत् । यमदूता: कम् नयाव: इति चिन्तित्वा सम्भ्रमिता: अभवन् । मूर्तीकारस्य गर्वस्य विषये ग्यातवान् एक: चतुर: यमदूत: एकम् उपायम् अकरोत् । स: उच्चै: अवदत् "मूतीकार: तु बहुनिपुण: किन्तु स्वस्य शरीरे एक: दोष: आसीत्, तम् स: मूर्त्याम् दर्शितुम् असमर्थ:" इति। तत् श्रुत्वा मूर्तीकार: क्रुद्ध: अभवत् अवदत् च "क: दोष: अहम् न अदर्शयम्" इति ।  यमदूत: अवदत् "गर्व: मानवानाम् एव दोष:। न केवलम् त्वम् परन्तु अन्य: कोपि तम् मूर्तीनाम् दर्शितुम् न शक्नोति। एतद् ग्न्यात्वा एव अहम् तद् विषये यदा त्वाम् आह्वयामि तदा त्वम् अपि तव उद्देशम् विस्म्रुत्य प्रकट: अभव:। इदानीम् अस्माभि: सह गमनाय विना अन्य कोपि न पर्याय्:। चलतु।"

-ज्योति गावडे 

Tuesday, September 20, 2016

कस्य कूप:?

हरि: नाम्न: एक: कृषक: एकं कूपम् अक्रिणत् | य: कूपम् अविक्रयत् स: भानु: नाम्न: महाधूर्त: | अग्रिम दिने  हरि: जलम् नेतुं कूपम् प्रति अगच्छत् तदा भानु: तां अवदत् "भो: हरे! कं प्रष्टुम् जलं नयसि | एतत् तु मम जलम्" इति | हरि: अवदत् "भानो! किं एवं वदसि ? ह्य: एव अहं एतं कूपम् त्वत् अक्रीणं किल?" भानु: अवदत् "अहं कूपम् एव अविक्रयं | तस्य जलं न अविक्रयं | यत: जलं अपि इच्छसि अधिकं मूल्यं ददातु इति | निराश: हरि: न्यायालयं गत्वा तस्य आक्षेप: अकथयत् | न्यायाधीश: महाचतुर: | स: भानुं आह्वयत् अवदत् च "हरि: कूप: एव अक्रिणत् खलु | जलं तस्य एव अस्ति | परन्तु जलं सङ्ग्रहितुं त्वं हरे: कूपम् उपयुज्यसि अत: तस्य भाटकम्  आवश्यकम्" |  तं ददातु अन्यथा कूपं रिक्तं कुर्वन्तु" इति |  भानु: अवदत् "भो: जलं हरिने एव ददातु यत:अहं कूपं रिक्तं कर्तुं न शक्नोमि" |

-ज्योति गावडे

Tuesday, September 6, 2016

पौत्र्या पत्रं


एष: विरामकाल: निर्मलया तस्या: बान्धवै: च मातामह्य: गृहे व्यतीत: आसीत् | स्वगृहम् प्रत्यागत्य सा मातामहीम् पत्रम् अलिखत् | 

प्रिये मातामहि 

मम यात्रा सुखेन शान्त्या च अभवत् | तत: लोकयानेन अत्र आगच्छम् | वाहनस्थानकत: त्रिचक्रिकया अहं गृहं आगच्छम् | अत्र मातृपितृभ्यां सह मिलित्वा आनन्देन वार्तालापं अकरवम् |  |

सर्वै: सह अहं विरामकाल: कथं असमापयम् न जानामि | इदानीं बान्धवै: विना गृहम् अतिशान्ततया नीरसं भासते | भवती अपि नीरसेन दिनानि समापयति, किम्? पठनेन दूरदर्शनेन च समय: वेगेन क्रमति अत: तथा करोतु | हस्तयो: वेदना अस्ति चेत् हस्ताभ्याम् अतिश्रमं मा करोतु | जागरुकतया अस्तु यत: एकाकिनी अस्ति | किमपि कष्टं भवति चेत् त्वरया दूरवाण्या संपर्कम् करोतु |

अग्रिम विरामकाले आवाम् पुनर्मिलाव | तत्पर्यंतं पत्रै: एव मिलाव |

भवदीय पौत्री  
निर्मला 

Monday, August 22, 2016

कस्य हंस:?

कस्य हंस:?


एकस्मिन् दिने राजपुत्र: सिध्दार्थ: मित्रै: सह क्रीडन् आसीत् | तत्र एक: शरेन क्षत: हंस: कथञ्चित् उड्डयन् आगच्छत् | सिध्दार्थ: तस्मै उपचारं अददत् | तदैव तस्य बान्धव: देवदत्त: तत्र आगच्छत् अवदत् च यत् अहं शरेन एतस्य हंसस्य मृगयां अकरवम् अत: एष: मम हंस: | मां ददातु | सिध्दार्थ: अवदत् अहं तस्मै जीवदानम् अददवम् अत: इदानीम् एष: मम हंस:| प्रश्नस्य समाधानार्थम् तौ राज्ञा\राजत: समीपे अगच्छताम् तां समस्यां अकथयतां च | देवदत्त: अवदत् राजन् मृगयाम् क्षत्रियो: धर्म: |अहं धर्मपालनम् एव अकरवम् अत: हंसं माम् ददातु | सिध्दार्थ: अवदत् परन्तु शरणार्थिन: जीवरक्षां अपि क्षत्रियस्य धर्म: अत: हंसं मह्यं एव दातव्यं | राजन् किञ्च्तित्काले चिन्तयित्वा असूचयत् यत् युवां किंचित् दूरे गत्वा हंसं आह्वयताम् | हंस: यस्यै स्निह्यति यत्समीपे गमिष्यति च स: तं प्राप्स्यति | ते तदेव कृतं\कृते आस्ताम् चेत् हंस: सिध्दार्थस्य समीपे अगच्छत् | स: आनन्देन् तं गृहीत्वा क्रीडार्थम् अगच्छत् |

Tuesday, August 16, 2016

लवणसदृश: स्नेह:


एकदा कृष्ण: तस्य द्वाभ्यां पत्नीभ्यां सह वार्तालापं अकरोत् |  सत्यभामा अपृच्छत् यत् 'भवान् मां कीदृशं स्निह्यति" | कृष्ण अवदत् यत् "अहं भवत्या मिष्टान्नसदृशं स्निह्यामि" | सत्यभामा प्रसन्ना भूत्वा तत: निरागच्छत् | रुक्मिणी अपि तदेव अपृच्छत् |  कृष्ण अवदत् यत् "अहं भवत्या लवणसदृशं स्निह्यामि" | तत् श्रुत्वा असन्तुष्टा रुक्मिणी अपि तत: निरागच्छत् | तत्पश्चात् भोजनसमये सेवका: शाकाणि, व्यञ्जनानि, मिष्टान्नानि च पर्यवेषयन् |  शाकेषु व्यञ्जनेनषु च् लवणम् न आसीत् | सर्वे अवदन् यत् लवणं ददातु | सेवक: अवदत् अद्य लवणं समाप्तम्, लवणेन विना खादितुम् न इच्छन्ति चेत् कृपया मिष्टान्नानि एव आस्वाद्य भोजनं समापयतु इति | सर्वे अवदन् "व्यञ्जनानि शाकानि आवश्यकं, मिष्टान्नै: उदरभरणम् कथं भवेत् ?" इति | तत्क्षणे रुक्मिणी अवागच्छत् यत् कृष्णस्य तां प्रति कियत् प्रीति आसीत् |सा कृष्णं प्रार्थ्य सर्वान् लवणं दातुं सेवकान् आदिशत् |

-ज्योति गावडे





Sunday, August 14, 2016

लडाखभ्रमणम्


भारतप्रवासस्य अन्ते: अहं लडाखप्रदेशे गिरिभ्रमणम् अकरवम् | मया सह मम पञ्चशालामित्राणि तेषां बान्धवा: च अगच्छन् | वयं मारखानद्या: समीपे भ्रमणम् अकुर्म: | प्रारम्भस्थानस्य Chilling ग्रामस्य औनत्यम् दश सहस्त्र पञ्चशतम् पादमितम् अस्ति | तत: शिखरस्थानम् KongMaruLa चतुष्पञ्चाशत् kilometers दूरे सप्तदश सहस्त्र त्रिशतम् पादे अस्ति | अन्तस्थानम् शिखरत: त्रयोदश kilometers दूरे अस्ति | प्रारम्भत: अन्तपर्यन्तं पादमार्ग: एव अस्ति | ग्रामवासिन: अपि पादमार्गेण एव भ्रमणम् कुर्वन्ति | ग्रामेषु सौरविद्द्युतजनित्रा: क्वचित् diesel विद्द्युतजनित्रा: अस्ति | एकस्मिन् ग्रामे एव उपग्रह दूरवाणी अस्ति | शौचालयेषु अवकरा: उर्वरके परिवर्तिता: | एतै: कारणै: प्रदूषणं अत्यल्पम् | ग्रामा: सस्यानि वर्धयन्ति स्वयंपूर्णा: सन्ति च | वयम् ग्रामनिवासे एव अतिष्ठाम तेषां अन्नम् एव अखादाम | ते अस्मान् लडाखस्य गुरगुर चायं दत्तवन्त: |  वयं Thukpa soup, स्क्यु वा व्यञ्जने क्वथितं dumpling, खंबिर  खादितवन्त:| लदाखी beer  छाङ्ग पीतवन्त:च | लदाखी जीवनं अनुभूतवन्त: |

- ज्योति गावडे

कथा: एतत् गतं, तत् अपि गतं



एका वृद्धा प्रात:कालात् आरभ्य सायंकालपर्यन्तं श्रमं कृत्वा धनम् सञ्चयति (संगृह्णाति) स्म | सा काशियात्राम् गन्तुं इच्छति स्म | ग्रामे एक: साधु: आसीत् | धनरक्षणार्थम् तस्मै ददामि इति चिन्तित्वा सा तस्य कुटीरम् अगच्छत् | साधु: तां असूचयत् कुटीरभूम्यां खनित्वा धनं गोपयतु इति | सा तथैव कृत्वा काशियात्राम् अगच्छत | यात्राया: प्रत्यागत्वा सा कुटीरे समशोधयत् | परन्तु धनं तत्र न आसीत् | यत्र धनं अगोपयत् तत्समीपे द्विवारं त्रिवारं उत्खननम् पश्चात् अपि धनं न प्राप्तं | साधु: अवदत् त्वं अगच्छ: तत्दिनात् इदानीं पर्यन्तं अहं धनम् न स्पृशामि कुत्र अस्ति न जानामि च इति | अपरस्मिन् दिने वृद्धा एकम् उपायम् अचिन्तयत् | तस्या प्रतिवेशिनीम् बृहद्स्यूतेन सह साधो: कुटीरम् अप्रेषयत् | प्रतिवेशिनी अपि साधुम् अवदत् काशियात्राम् गच्छामि धनं रक्षतु इति | तदा एव वृद्धा अपि तत्र आगत्य मम धनम् अत्रैव अनश्यत् इति उच्चै: अरोदत् | साधु अचिन्तयत् वृद्धाया: धनस्य अपेक्षया एतस्या: महिलाया: धनं बहु अधिकं| यदि अहं वृद्धाया: धनं न प्रतिददामि तर्हि एष महिला तस्या: धनं न स्थापयति इति | वृद्धे, त्वं धनस्य स्थानं व्यस्मरत् तत् अत्रैव अस्ति इति उक्त्वा स: धनस्य उचितस्थानम् अदर्शयत् | धनं गृहीत्वा ते महिला: साधुम् अवदताम् आवां तव विश्वासघातम् जानीव:| अत: ग्रामं त्यक्त्वा अपरं गच्छतु अथवा सर्वान् ग्रामस्थान वदिष्याव: इति |

- ज्योति गावडे

Tuesday, January 26, 2016

प्रहेलिका

एकस्मिन् परिवारे षट्सदस्या: सन्ति। जननी स्मिता, जनकः रमेशः, ज्येष्ठपुत्रः सुनीलः, 
पुत्रीद्वयं सुशीला सुमती च, कनिष्ठपुत्रः सुशान्तः। एकदा ते चलचित्रमन्दिरं तेषां कार्यानेन 
गन्तुं इच्छन्ति। परन्तु कार्यानेन चत्वारः जनाः एव गन्तुं शक्नुवन्ति । सुनीलः अथवा सुशीला 
एव कार्यानं चालयितुम शक्नोति । स्मितायै सोपानेषु सुनीलस्य साहाय्यम् आवश्यकं, अतः सा 
सुनीलेन विना न गच्छति। रमेशः स्मितया सह सदा विवादं करोति, अतः सा तेन सह कदापि न 
गच्छति। सुशान्तः बालकः, अतः सः जननीं विना कुत्रापि न तिष्ठति। अन्येन केनचित् सह वा 
कञ्चित् विना वा गन्तुं शक्नोति। के के चत्वारः जनाः सम्भूय गन्तुं शक्नुवन्ति? अथवा ते 
चलचित्रदर्शनार्थं कति प्रकारैः चत्वारजनसमूहं कर्तुं शक्नुवन्ति?"

-ज्योति गावडे