एष: विरामकाल: निर्मलया तस्या: बान्धवै: च मातामह्य: गृहे व्यतीत: आसीत् | स्वगृहम् प्रत्यागत्य सा मातामहीम् पत्रम् अलिखत् |
प्रिये मातामहि
मम यात्रा सुखेन शान्त्या च अभवत् | तत: लोकयानेन अत्र आगच्छम् | वाहनस्थानकत: त्रिचक्रिकया अहं गृहं आगच्छम् | अत्र मातृपितृभ्यां सह मिलित्वा आनन्देन वार्तालापं अकरवम् | |
सर्वै: सह अहं विरामकाल: कथं असमापयम् न जानामि | इदानीं बान्धवै: विना गृहम् अतिशान्ततया नीरसं भासते | भवती अपि नीरसेन दिनानि समापयति, किम्? पठनेन दूरदर्शनेन च समय: वेगेन क्रमति अत: तथा करोतु | हस्तयो: वेदना अस्ति चेत् हस्ताभ्याम् अतिश्रमं मा करोतु | जागरुकतया अस्तु यत: एकाकिनी अस्ति | किमपि कष्टं भवति चेत् त्वरया दूरवाण्या संपर्कम् करोतु |
अग्रिम विरामकाले आवाम् पुनर्मिलाव | तत्पर्यंतं पत्रै: एव मिलाव |
भवदीय पौत्री
निर्मला
No comments:
Post a Comment