Sunday, June 11, 2017

दन्त चिकित्सलयस्य दर्शनं - june 6th 2017

अहं गत गुरुवासरे दन्तचिकित्सालयं अगच्छम्
अनुवैद्या माम् एके (एकस्मिन् )प्रकोष्ठे उपविश्य (उपवेश्य) " चिकित्सिका आगच्छति " इति उक्त्वा अपद्यत |
तत्र चिकित्सिकायाः प्रकोष्ठे स्तित्वा निरीक्शित्वा (प्रतीक्ष्या) नीरस: अन्वभवम्
दूरवाणीं ग्रुहित्वा क्यन्डि क्रश् खेलनंम् अक्रीडम्
च अपि ( तावता) चिकित्सिका ना आगच्छत् ।
बलकौ (बालकयोः) कृते अहं सन्स्क्रुतं इति तन्त्रं दूरवान्याम् अस्थापयम्
तत् तन्त्रं उद्घाट्या अहम् क्रीडनं (क्रीडस्य )आरम्भं अकरवम्
तत् समये अनुवैद्या पुनः आगत्य "किम् करोति किम् क्रीडति "इति अप्रुचत् ।
अहम् प्रत्युत्तरम् अवदत् यत् एतत् स्थले अहम् बहु कालं यापयामि अतः अहम् एकां नूतनां भाषां ज्ञतुम् प्रयत्नं करोमि ।
अनुवैद्या चिकित्सिकायाः समीपं गत्वा वदति यत् सा बहुकालात् प्रतीक्ष्यां अकोरोत् ,सा स्वयं एव स्वस्य उपरि भाशायां शिक्षनं करोति (भाषां शिक्षयति )
चिकित्सिका भारत देशस्य युवतिः |भारतदेशात् आगतवति । सा तेलुगु हिन्दि ओरिय इत्यादि भाशाः जानाति ।
चिकित्सिका : आगत्या " किम् भो क्ष्म्यताम् विलम्बः जात:, का भाषा ज्ञतुम् इच्छति" ।
अहं : संस्क्रुतं
चिकित्सिका : "संस्क्रुतं किम्? संस्क्रुतं दैनिक भाशा किम्? जनाः वदन्ति किम्? अहम् तत् भाषा केवलम् पुस्तके अस्ति इति चिन्तयमि" 
अहम् विस्मिता आसीत् ।
मम मुखे सा औशधम् दत्वा सा अनुवैद्यया सह अवदत्  सन्स्क्रुतम् प्रचीन भाष ग्रन्थाः वेदाः संस्क्रिते अस्ति

अनुवैद्या अवदत् " यदि प्रचीना भषा अस्ति चेत् केन सह सम्भाशनं करोति"
अहं - मम गृहे प्रचीना जनाः नास्ति , परन्तु मम कुटुम्ब सदस्येन सह अहम् सम्भाषनं करोमि । वर्गः प्रचलति, सह छात्रैः अहम् वदमि
चिकित्सिका - वर्गः प्रचलति किम् ? ग्रुहे के के वदन्ति
अहं- स्रिधर्रः बालकौ च वदन्ति
चिकित्सिका-बालकौ अपि किम् ? तौ अपि जानीतः किम्? तौ इच्छतः किम्?
अहं-आम् तौ अपि शिक्षनं प्रप्नुतः |तौ इच्छतः|
चिकित्सिका-ओह् । अहम् परमविस्मिता अस्ति |

परन्तु तत्र अहम् एव परमविस्मिता अभवत् । चिकित्सिका बुद्दिमतिः अस्ति । सा कथं अचिन्तयत् भाषा केवल्ं पुस्तके अस्ति दैनिक भाषा नास्ति इति

Monday, June 5, 2017

samudra teeram may 30

  1. ह्यह् वातावरणं ऊष्णं आसीत् ।समुद्र तीरे जनाः स्तित्वा शीतलानि पनियानि पीत्वा अकामयन्त ।
  2. यद्यपि जलम् शीतलं अस्ति तथापि बालकाः स्मित्वा जले कूर्दित्वा कम्पित्वा अमोदन्त |
  3. कतिचन जनाः पत्तुम् अकामयन्त ।
  4. कतिचन पटितुम् अयतन्त ।
  5. कतिचन जनाः सुन्दरानि द्रुश्यानि ईक्षित्वा अमोदन्त
  6. बालकाः प्रौढाः च आकशे वाताटान् अडाययन्
  7. यदा वाताटस्य नाशः अभवत् तदा बालकः किन्चित् कालं एव अखिद्यत । क्षाणन्तरे स्मित्व जले अकुर्दत ।
  8. एतानि द्रुश्यानि लोकित्वा अहं अपि अमोदे

Friday, May 26, 2017

लभेत सिकतासु तैलमपि यत्नतः पीडयन्

लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासर्दितः ॥
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥

यदि त्वं बहुप्रयासेन सिकतां पिनष्टि तर्हि प्राय: तासु तैलं लभेथा: |
पिपासया त्रस्तौ सति युवां प्राय: मृगजलात् अपि सलिलं पिबेयाथाम् |
पर्यटन्तौ जनौ कदाचित् शशकस्य शृङ्गं अपि वीक्ष्येयाताम् |
किन्तु ये जना: मूर्खताया: प्रति निविष्टा: तेषां चित्तं यूयं कदापि न परिवर्तेध्वम् |
अत: तादृशा: प्रयत्ना: आवा: मा क्रियेवहि एव |



Saturday, May 20, 2017

वृद्धकुमारीवाक्यन्याय:

वृद्धकुमारीवाक्यन्याय:

कदाचित् कोपि अविवाहिता वृद्धा इन्द्रात् एकं वरदानं अलभत  | स: वररूपेण व्यज्ञापयत यत् पुत्रा मे बहुक्षीरघृतमोदनं काञ्चनपात्र्यां भुञ्जीरन् | पश्यन्तु एकेन एव वरेण सा किं किं लभेत | प्रथमं कोपि तया सह विवाहं कुर्यात | तदनन्तरं तस्या: पुत्रा: जायेरन् |  तस्या: गृहे बहव्य: धेनव: वर्तेरन् | तासां दुग्धं च घृतं च कदापि मा क्षयेताम् | धनं च धान्यं च विपुलानि वर्तेताम् | तर्हि तस्य पुत्रा: सुवर्णपात्रेभ्य: \ पात्रेषु बहुक्षीरघृतमोदनं भुञ्जीरन् | सा तं  वरं अलभत वा न वा इति वयं न जानीम: | परन्तु तादृश कोपि एकेन उक्तेन वाक्येन एव बह्वी: अनुक्ता: इच्छा: प्रदर्शयति तत्र वृद्धकुमारीवाक्यन्याय: इति उच्यते |

Tuesday, May 16, 2017

घटं भिन्द्यात् पटं छिन्द्यात्

घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभारोहणम् |
येन केन प्रकारेण प्रसिद्ध: पुरुषो भवेत् |
गुणिन: जना: तेषां गुणवैशिष्ठेन प्रसिद्धा: भवन्ति | किमपि वैशिष्ठं नास्ति चेत् सहसा प्रसिद्धिं न प्राप्नुयात् | प्रसिद्धिं इच्छन्तौ सामान्यजन: मूर्खजन: च किमपि अविवेकं कार्यं अपि कुर्याताम् | यथा कोपि घटं भिन्द्यात् | अन्य: कोपि धारितं वस्त्रं छिन्द्यात् | केऽपि गर्दभारोहणम् अपि कुर्यु: | येन केन प्रकारेण अहं इतरजनानां चित्तं आकर्षयेम् इति ते चिन्तयन्ति | सुभाषितकार: सूचयति तादृशै: कार्यै: जना: कुप्रसिद्धिं एव प्राप्नुयु: | वयं यदि साधुकर्माणि कुर्याम  तर्हि सुप्रसिद्धिं प्राप्तुं शक्नुयाम | अत: यूयं दानकर्मणा वा सेवाकर्मणा वा सुप्रसिद्धिं प्राप्नुयात |

Tuesday, May 9, 2017

२०५०

२०५०

२०५० तमे वर्षे अस्माकं जीवनं कथं विद्यिष्यते? जनानाम् त्रीणिचतुर्थांश: नगरेषु  वर्तिष्यन्ते | कृषिवला: ग्रामेभ्य: प्रस्थास्यन्ते नगराणि अयिष्यन्ते च | नगरेषु उन्नतेषु भवनेषु सस्यानि वर्धिष्यन्ते | हे अपर्णे त्वं च राहुल: च तत्र अपर्युषितम्\अभिनवं\अयातयामं शाकानि निरन्तरं लभिष्येथे| 

कल्पना श्रीधरमहोदय: च यदि "किं भोजनं" इति उहिष्येते तर्हि यन्त्रमानव: अनेके पर्याया: भाषिष्यते | इष्टभोजनम्  पक्त्वा तौ निमन्त्रयिष्यते |

पूर्णतया स्वयंचलितानि वाहनानि इतस्तत: डयिष्यन्ते | वाहनेन अपघातस्य शक्यता अतिन्यूनम् विद्दिष्यते | अहं दीपाली च द्विचक्रिकया महामार्गेभ्य: अपि मोदेन भ्रमणम् करिष्यावहे |

कोदेयि,  त्वं च तव गुरुबान्धवा: च तव गुरुमाताया: सचेतनप्रतिकृतिम् आलोकयिष्यध्वे तया सह चिन्तनम् करिष्यध्वे च |  
 वासुकिमहोदयस्य सचेतनप्रतिकृति संस्कृतम् शिक्षिष्यते | विनोद: विरामकाले अवकाशयानेन भ्रमन् संस्कृतं अधीष्यते |  
 आकाश: बहुतांशेन सौर-ऊर्जा-पटेन वरिष्यन्ते | तेन ऊर्जा जायिष्यते अपि तु  स: जनान् अतिनीलकिरणात् त्रायिष्यते | रात्रौ पटस्य पिधानं कृत्वा वयम् आकाशे चन्द्रतारकान् ईक्षिष्यामहे |


Thursday, April 20, 2017

नूतनप्राथमिककक्ष्या लोट्लकारः

आगामि मासे नूतनप्राथमिकक्ष्या भविश्यति ( वर्तते)
तन्न्निमित्तम् (तस्य निमित्तम् ) सर्वविधसन्नाहाः कुर्वताम्
ज्योति दीपालि च करपत्राणि मुद्रनं कामयेते | अतः युवां कुर्वाथाम् |
कोदै कथां कामयते अतः त्वम् कथां ब्रूष्व ।
अपर्ण पाठनं कामयते अतः पाठं शिक्ष्यतां ।
विनोदः श्रीनिवासः च छात्राणाम् उपस्तिथिम् ईक्षेताम् ।
द्वितीये दिने अपि यूयं पद्यध्वम् ।
भोजनानन्तरं छात्राः निद्रालवः भविश्यन्ति अतः छात्रान् चायेन कफीपानीयेन च उपकुर्वताम् ।
अन्ते नाटक समये छात्रान् आलोकन्ताम् । यूयं नाटकानि इक्षध्वम् ।
एतस्य कार्यक्रमस्य परिपालन समये अहम् वर्ते किम्?

Thursday, April 13, 2017

द्वौ अम्भसि निवेष्टव्यौ

द्वौ अम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् |
धनवन्तमदातारं दरिद्रं चातपस्विनम् |

अयं श्लोक: महाभारते अस्ति | सुभाषितकार: एतादृशाभ्यां द्वाभ्यां जनाभ्यां बहु द्वेष्टि | प्रथमम्  धनवान्  य: धनम् न दत्ते | द्वितीयम् दरिद्र: य: न यतते न तपते च | तादृशौ जनौ भूमीभाराय एव | तयो: किमपि प्रयोजनम् नास्ति |

सुभाषितकार: भाषते तादृशौ जनौ जगति मा वर्तेताम् | यदि भवन्त: तौ ईक्षन्तां तर्हि तेषां गलेषु दृढां शिलां बाधयन्ताम् | अम्भसि तौ निवेशन्ताम् च यत: तौ न उपप्लवेताम् \ विप्लवेताम् |      

Wednesday, April 12, 2017

सन्क्षेपरामयणं

एकस्मिन् सुदिने जनकमहाराजः हलति | तत् समये सीतां भुम्याः लभते।
धनुशः यागस्य समये रमः लक्ष्मणविश्वामित्राभ्यां सह जनकापुरिं पद्यते |
प्रातः काले उद्यानवने रामः सितां ईक्ष्यते रमते च|
रामः धनुषः भङ्गं क्रुत्वा सितां परिणयति |
मन्ड्वि भरतं , ऋतुकिर्ति: शत्रुघ्नं ऊर्मिल लक्ष्मनं च परिनयन्ति ।
रामः सिता च सर्वान् वन्देते
जनकः दशरथः च सुखिनः भवन्तु इति कामयेते।
परन्तु तदनन्तरम् सर्वस्मिन् समये तौ कष्टान् सहेते |
रामः राज्यपरिपालनं कुरुते इति दशरथः मन्यते परन्तु रामः वनं गच्छतु इति कैकेयि कामयते |
रामः वनं अयते।
रावणः सितायाः अपहरणं कुरुते । रामः रावणं मृगयते ,स्पर्धते मारयति च।
अनन्तरं रामः सितां शङ्कते , सिता अरण्यं पुनः अयते |

तदनन्तरम् रामः लवकुशाभ्यां रज्यपरिपालनं दधते। तदनन्तरम् रामः लवकुशां रज्यपरिपालनं दधते। सीतया सह वैकुन्टं अयते।

Saturday, April 8, 2017

आत्मनेपदि - दशवाक्याणि

वन्यप्राणिसंरक्षणा स्थले वन्यप्रणिनः म्रुगयन्त् । जनाः कार्यानेशु स्तित्वा प्राणिनः निरीक्षन्ते ।
क्रीडाङ्गने बालकाः कन्दुकक्रीडायां स्पर्धन्ते । ते जेतुं यतन्ते । गणः विजयं प्राप्नोति चेत् मोदते ।जनाः आलोकन्ते श्लाघन्ते च ।
विपक्षः  पराजयते अथः  खिद्यते  | 
अद्य सखी  मम ग्रुहं आगच्छति इति अहम् ऊहे|
आवां गृहभ्यासानन्तरं दूरदर्शनं पश्यव इति उहावहे ।
बालिकाः यत् अद्य विद्यालयस्य विरामः अस्ति अतः आपणान् गच्छामः इति प्रर्थयन्ते ।
ग्रीष्म काले उष्णं अस्ति अतः शरीरं स्विध्यते ।

Friday, March 24, 2017

बहुरूपिण: कौशलम्

कस्मिन्स्चित् नगरे कश्चित् बहुरुपी आसीत् | स: कानिचन रूपाणि (धारयन्) धृत्वा जनानां मनोरञ्जनम् कृत्वा स्वस्य उदरनिर्वाहं करोति स्म | कस्मिन्स्चित् दिने स: किञ्चिदपि धनम् न प्राप्तम् | कस्माच्चित् धनिकात् दानम् याचयामि  इति चिन्तयित्वा स: आपणम् अगच्छत्  | तत्र कस्यचित् धनिकस्य शकटम् गच्छन् आसीत् | कथंचित् तं रोधित्वा स: धनिकं आह्वयत् यत् अहं बहुरुपित्वेन (बहुरुपकत्वेन) उपजीविकां करोमि | अद्य मम कलां दृष्ट्वा अपि केनचित् अपि जनेन धनम् न दत्तं | भवान् पञ्च नाणकानि ददाति चेत् कस्याश्चित् विपण्या: परिवारस्य कृते अन्नं क्रिणामि | धनिक: वदति भो: मां अपि किञ्चन रूपं दर्शयतु | तत् यदि मह्यं रोचते तर्हि न केवलं पञ्च परन्तु पन्चाशत् नाणकानि अपि ददामि इति |  बहुरुपी क्षणमात्रं अचिन्तयत् अवदत् च "अस्तु | अद्य मन्दिरे कस्यचित् महत: साधो: आगमनम् अस्ति | इदानीम मम तत्र गन्तव्यम् अस्ति | भवान् अपि विपण्या: कार्यं समाप्य तस्य दर्शनं करोतु | अहं अनन्तरं भवत: गृहं आगत्य भवन्तं मम किमपि रूपं दर्शयामि इति |

बहुरूपी तत: प्रतिष्ठते | धनिक: अपि कार्याणि समाप्य ऊहते साधुपुरुषा: क्वचिदेव अत्र आगमनं कुर्वन्ते | अहं निश्चितेन तस्य दर्शनाय प्रयते इति | यदा धनिक: मन्दिरं (प्राप्यते) तदा बहुजना: तत्र साधुम् अर्चयन्ते | तस्य कृते नैवेद्यं, वस्त्राणि धनं च ददते | ध्यानमग्न: साधू: तान् उपहारान् एकवारम् अपि न ईक्षते | धनिक: साधुं वन्दते | स: तं शतनाणकानि अर्पयित्वा गृहस्य प्रति प्रयाणं कुरुते | तस्य पृष्ठत: साधू अपि तत्र आगत्य धनिकं सङ्गच्छते | साधु: तदा स्वस्य सत्यरूपं विवृणुते |

स: तु बहुरूपी एव वर्तते | स: धनिकेन दत्तानि शतनाणकानि अपि धनिकाय प्रतिदत्ते | आश्चर्यचकित: धनिक: भाषते "भो: किमर्थं शतनाणकानि त्यक्त्वा पञ्चाशत नाणकानि स्वीकर्तुम् अत्र आगमनं कुरुषे?" | बहुरूपी ब्रूते  "अहं तु साधु इव महान् न वर्ते | परन्तु व्यवसायं प्रति मम साधुत्वम् विद्यते | यदि अहं रुपान्तरेण यत् लभे तत् स्वीकुर्वे तर्हि अहं वञ्चक: अहं बहुरूपी न | जना: मम कौशलम् अपि न जानते यत: अहं जनान् मम सत्यरूपम् अपि दर्शयितुं न शक्नोमि" इति | धनिक: एतत् श्रुत्वा मोदते | स: बहुरूपिणे शतनाणकानि दत्ते  |  

Sunday, March 19, 2017

अष्टाध्यायीसूत्रपरिचय:

पाणिने: अष्टाध्याय्याम् व्याकरणनियमा: अतिसङ्क्षिप्तरुपेण दत्ता: आसन् | स: आरम्भे माहेश्वरसूत्राणि नाम स्वरव्यञ्जनयो: विशिष्ठान् समूहान् अयोजयत् |प्रत्येके सूत्रे अनुबन्ध: नाम अन्तिमवर्ण: अस्ति | कस्माच्चित् सूत्रात् अनुबन्धं विहाय कञ्चिदपि वर्णं स्वीकृत्य तत्परं कञ्चिदपि अनुबन्धं योजयित्वा य: द्विवर्णीय: शब्द: भवति तस्य प्रत्याहार: इति संज्ञा |उदा. "इक्" प्रत्याहार: 'इ' वर्णात् आरभ्य 'क्' अनुबन्धपर्यन्तम् अनुबन्धान् विहाय सर्वान् वर्णान् बोधयति | तथैव "यण्" प्रत्याहार: 'य' वर्णात् आरभ्य 'ण्' अनुबन्धपर्यन्तं, "अच्" प्रत्याहार: 'अ' वर्णात् आरभ्य 'च्' अनुबन्धपर्यन्तं सर्वान् वर्णान् बोधयति | अष्टाध्याय्या: षष्टमे अध्याये प्रथमे पादे सप्तसप्ततितमे सूत्रे इमे त्रय: प्रत्याहारा: सन्ति |   "इकोयणचि" नाम अस्मिन् सूत्रे "इक्" प्रत्याहारात् कश्चित् वर्णस्य अनन्तरं "अच्" प्रत्याहारस्य कोऽपि वर्ण: आगच्छति चेत् तस्य स्थाने "यण्" प्रत्याहारे क्रमश: य: वर्ण: अस्ति तम् योजयतु इति उपदेश:|
उदा. पितृ पदस्य तृतीयाविभक्त्या: एकवचनप्रत्ययम्  | तत्र पितृ पदस्य  ऋकारात् अनन्तरम् आ आगच्छति | अत: इक् प्रत्याहारत: ऋ इति तृतीय वर्णस्य स्थाने यण् प्रत्याहारत: तृतीय वर्ण: 'र' आगच्छति | अत: तस्य तृतीयाएकवचनं "पित् + र  + आ = पित्रा" भवति | तथैव मत्या, धेन्वा च |



 

Thursday, March 16, 2017

पूर्णप्रत्ययान्ताः विविधानि वाक्यानि

1.विद्यालये शामला परिचर्चास्पर्धे प्रथमम् स्थानं अप्राप्नोत्॥ इदम् तस्याः स्वर्णपदकं |
2.रविः अपि स्पर्धां अकरोत् परन्तु सः द्वितियां श्रेणीम्  अप्रप्नोत् |अयम् तस्य पुरस्कारः |
3.मम सख्याः पुत्र्याः (putri shasti ekavachanam) जन्मदिमनम् भवति। सा एकादशी वर्शी (वर्शः) असित् । इदानिम् सा द्वदशी वर्शी (वर्शः) भवति। त्रिंषतः वर्शात् सा द्वात्रिंशतः भवति|
4.प्रथमम् मार्गे वामतः चल। किन्चित् दुरे रक्तवर्णस्य भवनस्य   कृते अन्वेशयतु |भवने पन्चमे  कुट्टिमे दक्षिणतः पञ्चदशादिक पन्चशततमम् सङ्ख्याफलकं पश्यतु। तत् मम गृहम् नास्ति| तत् पर्ययाम् वमतः वातायनं प्रति चलतु। अत्र पन्चविम्शातधिक पन्चशतमं सन्ख्यफलकम् द्रुष्ट्वा द्वारघन्टां नादयतु|

5.सः पञ्चमः पर्यायः चालनपरीक्षां अददत् । अस्य तस्य षष्टः ।
6.प्रातःकाले बालकौ प्रथमम् चमसौ स्वीकुरुतः |द्वितीयम् अल्पाहारं खादतः|त्रुतीयम् क्षीरं पिबतः|

7.विद्यालये प्रथमा कक्षा दशाधिक अष्ठवादने भवति ।
-कल्पना

Tuesday, March 14, 2017

झाशीराज्यस्य राज्ञी लक्ष्मीबाई

लक्ष्मीबायः जन्मः काशीनगरे अभवत् | तस्याः नाम तदा मन्निकर्णिका आसीत् | यदा सा चतसृणां वयसः आसीत् तदा तस्याः माता दिवङ्गता अभवत् | बाल्यकाले नानासाहेबमहोदयः च तात्याटोपेमहोदयः च तस्याः सखायौ आस्ताम् | ताभ्यां सह सा अश्वारोहणं च खड्गयुद्धकौशलं च शस्त्रमुन्चनं च अपठत् | अनन्तरं तस्याः विवाहः झाशीराज्यस्य राज्ञा सह अभवत् | तदा तस्याः नाम परिवर्त्य लक्ष्मीबाई अभवत् | कस्मान्चित् वर्षात् अनन्तरं यदा राजा अस्वस्थः अभवत् तदा तौ एकस्य पुत्रस्य दत्तस्वीकारं अकुरुताम् | राज्ञः मृत्युअनन्तरं (संधि किम्?) आङ्ग्लशासनम् दत्तपुत्राय सिंहासनं न अददात् | झाशीराज्यम् आङ्ग्लराज्ये सलग्नम् कर्तुं योजनाम् अकरोत् | अपि च लक्ष्मीबायै "झाशीदुर्गं त्यजतु" इति आदेशम् अददात् | किन्तु सा झाशीराज्यस्य रक्षणाय निर्धारिता आसीत् | सा सैन्यसंघटनकर्तुम् आरम्भम् अकरोत् | तस्याः सैन्यै पुरुषाः च स्त्रियः च आसन् |

अनुवर्तते

- दीपाली भागवत

Friday, March 10, 2017

गणपथेः पराभवः

गणेश चतुर्थी नाम्ना उत्सवः भाद्रपदमासे शुक्ल पक्षे चतुर्थीतिथौ भवति |
जनानाम् भक्तिः गणेशे अस्तिः । सः गणानाम् अधिपतिः,अथः सः विघ्नान् नाशयति इति जनाः भाति। गणेशः मधुरान् मोधकान् बहु इच्छति । एकदा सः मुधुरभक्ष्यान्नं, मधुरान् मोदकान् च अधिकम् अखादत्।
अनन्तरं शेषान् मधुरान् मोधकान् सङ्ग्रुह्या आयेसेन मूषकस्य उपरि स्तित्वा गृहम् प्रचलति ।
किन्चित् दूरे मूषकस्य सन्तुलनं नश्यति ।अतः गणेशः अपि प्रस्खल्य अधः पतति । सर्वा: मधुराः मोदकाः अपि पतन्ति | गणेशः मन्दम् मन्दम् उत्थाय प्रतिदिशम् पश्यति । आशाम् करोति कोपि तस्य अवस्थांपश्यतु |
मन्दभाग्यः चद्रमाः एतद् सर्वम् पश्यति | अधः पतितस्य गजाननस्य , लम्बोदरस्य अवस्थां द्रुष्ट्व चन्द्रमा: हसति । अवहेलनम् करोति | अपहासम् श्रुत्व गणेशः पराभवम् अनुभवति |
क्रुद्दः गणेशः "तुच्च: चन्द्रम:" इति गर्जति | गणेशः शपति यत् माम् द्रुष्त्वा अपहसति किम् ?

मम आकर: विलक्षन: अस्ति परन्तु अहम् गणानाम् अध्यक्षः | सर्वेषु लोकेषु मम पूजा भवति ।तव सुन्दरः रूपं त्वाम् मन्दबुद्दिम् अकरोत् | अतः त्वम् अद्रुश्यः भव | कोपि तव सुन्दररूपस्य दर्शनम् न शक्नोति " । गर्वभन्गः कम्पितः चन्द्रमाः स्वस्य अपरदम् ज्ञात्व गणेशस्य शरणम् प्राप्य क्षमाम् याचते | शान्तः गेनेशः वदति यत् अहम् मम शापम् निष्काशयितुं न शक्नोमि |परन्तु शपम् अल्पं करोमि | यदि कोपि गनेष चतुर्थीतिथौ चन्द्रमसम् पश्यति तर्हि सःअपवादान् समस्याः च अनुभवति | इति उक्त्वा गणेश निर्गच्छति अतः यद्यपि चतुर्थीतिथौ चन्द्रमाः पुर्नकान्त्य प्रज्वलति तथापि केपि चन्द्रमसम् न पश्यन्ति |

Sunday, March 5, 2017

क्रीडाचक्रम्


अहं गत वर्षे पञ्चदशानां वर्षानाम् अनन्तरं क्रीडाचक्रं द्रष्टुम् अगच्छम् | तत्र आरम्भे चतुर्षु द्वारेषु चत्वारः कलायनाः आगच्छन् | ते चतस्रभिः रज्जुभिः नेत्रदीपकां क्रीडाम् अकुर्वन् | अनन्तरम् एकः विदुषकः आगच्छत् | सः द्वाभ्यां कलायनाभ्यां सह रज्जुभिः क्रीडां कर्तुं प्रयत्नम् अकरोत् | परन्तु तस्य क्रीडां दृष्ट्वा तौ द्वौ कलायनौ अन्तः अगच्छताम् | तस्मात् परम् द्वयोः द्वारयोः षट् श्वापदाः तेषाम् एकेन स्वामिना सह आगच्छन् | तेषु षटसु श्वापदेषु त्रयः सिंहाः च तिस्त्रः गज्यः च आसन् | ते सर्वेऽपि सम्यक् क्रीडाम् अकुर्वन् परन्तु तिसृणां गजीनाम् अपेक्षया त्रयाणां सिंहानां क्रीडा अधिका रोमान्चिता आसीत् | विदुषकः तु भीत्या त्रिभ्यः सिंहेभ्यः दूरं अधावत् | क्रीडां पश्चात् तेषां स्वामी त्रिभ्यः सिंहेभ्यः मांसखण्डानि च तिसृभ्यः गजीभ्यः पर्णानि च अददात् | अन्ते विदुषकः त्रिभिः कन्दुकैः क्रीडाम् अकरोत् | तत् क्रीडाचक्रं मम अतिमनोरन्जनम् अकरोत् |

दीपाली भागवत

Thursday, March 2, 2017

चन्द्रमाः Feb 14 & 21 - कल्पना


Feb 14 2017
1. अद्य महिलासभायाः (महिलाणां साभायाः) सम्मेलनम् आसीत् |सम्मेलनम् भवनस्य उन्नते कुट्टिमे
   प्राचलत् ।स्वागतप्रकोष्टे महिलाः शुक्रवर्णाः शाटिकाः धृत्वा सुधारिनाः शोभन्ते ।
2. नीले आकशे चन्द्रमाः विहरति । जनाः चन्द्रवत्याम् रात्रौ जनाः अटितुम् इच्छन्ति । विशेषतः
   प्रेमिकाः ।
3.यदकदापि चन्द्रकान्तिः ताजमहल् भवनं स्प्रुशति तत् समये ताजमहल् देदीप्यमानः वज्रः ईव 
  प्रज्वलति ।
4. कतिचन प्रेमिकाः चन्द्रमसं प्रति  प्रलापनं अपि कुर्वन्ति । कतिचन विरहितायाः वेदनायाः  
    प्रकटनम्  कुर्वन्ति ।
5. रामात् विरहिता सीता अशोकवाटिकायां भयंकराणां प्राणहरिणीणां राक्षसीणां मध्ये आसीना अस्ति 
  ।यद्यपि सीतायाः वदनं खिन्नं श्रान्तं च अस्ति तथापि प्रज्वलति ।तस्मात् कारनात् एव हनुमानः सीतां
  अभिजानाति ।
6.सीतायाः वियोगस्य समये रामः अपि चन्द्रमसम् प्रति सम्भाषनं क्रुतवान् व? सीतां स्प्रुष्टवा आगता
  मरुता  वेदनायाः प्रकटनं क्रुतवान् व?तत् मरुत् रामां स्वन्तनम् अकरोत् वा ?

Feb 21 2017
दक्ष्यमहाराजस्य पुत्र्यः सप्तविंशतिः सन्ति । सर्वाः चन्द्रमसं परिणन्न्ति |चन्द्रमाः सर्वस्याः अपेक्षया रोहिणीं इच्छति ।सर्वाः अपेक्षया चन्द्रमाः रोहिणीं एव इच्छति । एतद् विशयं तां दक्ष महाराजं प्रति आवेदनं क्रुतवत्यः ।दक्षमहाराजः चन्द्रमसम् प्रति प्रत्यादेशं आदिष्टवान् । परन्तु चन्द्रामाः न शृणोति । ततः क्रुद्दः दक्षः चन्द्रमसम् शपति । क्रमेण क्षीर्णं भवतु ( क्षीयतु ) इति |व्याकुलः चन्द्रमाः ब्रह्णानं प्रति गत्वा हितोपदेशम् अपृच्छत् ।ब्रह्मः शिवस्य प्रार्थानां करोतु इति आदिष्टवान् ।तपस्यायाः अन्ते शिवः प्रत्यक्षीभूय चन्द्रमसः क्लेशः ज्ञातवान् | दक्षस्य शापस्य उपेक्षाम् न करोमि परन्तु कृष्णपक्ष समये भवान् क्षियते शुक्लपक्ष समये वर्धते इति वरं दत्वा निर्गच्छति | चन्द्रमाः उपशान्तः भवति । शिवस्य शिरसी आभरणं इव भवति । सोमनाथः  इत्युक्ते चन्द्रमाः रक्षकः इति |


Sunday, February 26, 2017

रत्नानि कुत्र?

किञ्चित् विशालं राज्यम्| तत्र कश्चन वृध्दः वणिक् आसीत्| कदाचित् सः तस्य केनचित् सुहृदा सह अन्यं ग्रामं गन्तुं प्रयाणं अकरोत्| किञ्चित् कालानन्तरं तयोः पथि चक्रवातः अभवत्| तदा तौ पथः समीपे किञ्चित् पुरातनं धाम अस्ति तत्र रक्षणाय अस्थगयताम्| यदा वणिजः सुहृद् धाम्नि अपश्यत् तदा सः एकं लघुं स्युतं प्राप्नोत्| यदा सः तं स्यूतम् उदघाटयत् तदा अन्तः रत्नाणि अपश्यत्| सः तं रत्नानां स्यूतं वणिजं दर्शयित्वा अवदत् - "प्रायः कस्यचित् अन्यस्य पथिकस्य स्यूतः अस्ति| आवां श्वः पुनरागत्य राज्ञे दास्यावः" इति| वणिक् अवदत् - "भोः निष्कपट सुहृद्, राज्ञे किमर्थं ददावः? तत्स्थाने आवाम् एव अर्धम् अर्धं विभजनं कृत्वा गृह्णीवः" इति| सुहृद् अवदत् - "भवान् अति बुद्धिमान्| तदेव करवाव" इति|

अग्रीमे दिने परान्हे वणिजः सुहृद् राज्ञ: सभां गत्वा एतां घटनां अश्रावयत्, अवदत् च - "वणिक् सर्वाणि रत्नानि अग्रुह्णात्" इति | राजा वणिजं आहूय अपृच्छत् - "भोः वणिक्, तव सुहृदः वाक् सत्या किम्?" इति| वणिक् अवदत् - "न राजन्, अहं पुनरागत्य मध्यान्हे एव सुहृदे अर्धरत्नानि अददाम्" इति | राजा अपृच्छत् - "कोऽपि साक्षी आसीत् तदा?" इति| वणिक् अवदत् - "आम्, मम द्वौ  कर्मकरौ तदा तत्र आस्ताम्| तौ अपश्यताम्" इति| राजा तौ आव्हातुम् आदेशम् अददात्| अनन्तरं वणिजम् अपृच्छत् - "रत्नानां वर्णः कः आसीत्? त्वं कथं रत्नानि सुहृदे अददात्?" इति | वणिक् अवदत् - "रत्नानां वर्णः श्वेतः आसीत्| अहं रक्तवर्णेन स्यूतेन तानि रत्नानि सुहृदे अददाम्" इति | राजा अवदत् - "अस्तु| तत्र शान्तः उपाविश| किमपि मा वद" इति |

यदा वणिजः कर्मकरौ आगच्छतां तदा राजा केवलम् एकं कर्मकरम् अन्तः आह्वयित्वा रत्नानां वर्णः, वणिक् तानि कथं अददात् इति अपृच्छत्| कर्मकरः अवदत् - "रत्नानां वर्णः रक्तः आसीत्| वणिक् तानि हस्ताभ्यां सुहृदे अददात्" इति| राजा अपरं कर्मकरं आह्वयित्वा समानौ प्रश्नौ अपृच्छत्| सः कर्मकरः अवदत् - "रत्नानां वर्णाः भिन्नाः आसन्| वणिक् तानि श्वेतस्य वर्णस्य स्यूते स्थापयित्वा अददात्" इति| राजा अवदत् - "भोः वणिक्, त्वं च, तव कर्मकरौ च असत्यं वदन्ति इति तु स्पष्टम्| सर्वाणि रत्नानि झटिति तव सुहृदे देहि| अपि च दण्डार्थं शतसुवर्णनाणकनि राज्यस्य वित्तकोषे पूरय| पुनश्च एतत् मा कुरु" इति|

दीपाली भागवत

Friday, February 24, 2017

यत् इच्छसि तत् ददातु

अयं धनवान् हरि: | अस्य पुत्र: जगजित्  | हरे: पुत्रप्राप्ति: बहुकालेन अभवत्  अत: यद्यपि हरि: वृद्ध: अभवत् तथापि जगजित् बाल: एव  | हरे: सुहृत् सुधांशु: | सुहृदि हरे: दृढ: विश्वास:| यदा हरे: मृत्युसमय: समीपम् आगच्छत् स: मृत्युपत्रे अलिखत् यत् "मम इदं मित्रं सुधांशु: अस्य जगजित: पालक: भवतु | मम इमां संपदम् अयम् रक्षतु | इमानि कार्याणि सम्यक् करोति चेत् अस्य जगजित: युवाकाले सुधांशु: यत् इच्छति तत् अस्मै जगजिते ददातु | अस्या: संपद: अवशिष्टम् अयं सुधांशु: प्राप्नोतु "| यथा उक्तं सुधांशु: अनया संपदा जगजितम् अष्टादशवर्षपर्यन्तं लालयति पालयति च |

अनुवर्तते |

यदा संपद: विभजनसमय: आगच्छत् सुधांशो: मनसि लोभ: उदभवत् | तस्या: संपद: द्वे गृहे, चतुर: भूमिखण्डान्, षड् वृषभा: वृषभान्, अष्टात्रिंशत् धेनू:, पञ्चाशत्सहस्राणि रुप्यकाणि च स: स्व्यकरोत् |  यत् अवशिष्टं एकं गृहं, द्वौ भूमिखण्डौ, त्रीन्  वृषभा: वृषभान्, चतस्र: धेनू:, पञ्चसहस्राणि रुप्यकाणि च जगजिते अददात् | जगजित् अपृच्छत् "किमर्थम् ईदृशं ईदृशम् अयोग्यम् विभजनम्?" इति | तदा सुधान्शु: तं मृत्युपत्रम् अदर्शयत् अकथयत् च "तव पिता एव माम् असूचयत् यथा इच्छा तथा करोतु" इति | तत् दृष्ट्वा निराश: जगजित् अचिन्तयत् यत् "अयं तु घोर: अन्याय: | कथं मम पिता मृत्युपत्रे ईदृशम् अलिखत्? अस्मिन् किमपि गूढम् गूढं दृश्यते | अस्य नगरस्य विद्वांसं न्यायमूर्तिम् इदं मृत्युपत्रं दर्शयामि पृच्छामि द्रक्ष्यामि दर्शयिष्यामि प्रक्ष्यामि च" |

अनुवर्तते |

न्यायमूर्ति: इमां वार्ताम् अश्रुणोत् मृत्युपत्रं मृत्युपत्रम् अपश्यत् च | स: सुधांशुम् आह्वयत् | तम् अवदत् "भो: इयं संपद् तु जगजित: पितु: | वस्तुत: अस्या: स्वामि स्वामी तु जगजित् एव | तस्य पालनार्थम् अस्या: स्वल्पभागं स्वीकुरु | अवशिष्टं जगजिते देहि" | इति | चतुर: सुधांशु: अवदत् "भो: मम मित्रम् अजानात् पुत्रपालनम् कीदृशं कठीणं कार्यं अत: यथेच्छ यथेच्छम्  मूल्यम् स्वीकर्तुं स्वीकुरु इति स: माम् असूचयत् | मम मृतस्य मित्रस्य इच्छाम् अहम् कथं त्यजामि" | इति | न्यायमूर्ति: तस्मात् अपि (तस्य अपेक्षया) चतुर: (तेषु चतुरतर:) | स: अपृच्छत् "अस्तु| त्वम् स्वस्य कृते किम् इच्छसि?" इति |  सुधांशु: अवदत् "द्वे गृहे, चतुर: भूमिखण्डान्, षट् वृषभान्, धेनूनाम् अष्टात्रिंशत्, पञ्चाशत्सहस्राणि रुप्यकाणि च इच्छामि" इति | न्यायमूर्ति: अवदत् "अस्तु | मृत्युपत्रे एवमेव लिखितम् यत् त्वम् इच्छसि तत् अस्मै जगजिते ददातु इति | अत: जगजिते द्वे गृहे, चतुर: भूमिखण्डान्, षड् वृषभा: वृषभान्, अष्टात्रिंशत् धेनू:, पञ्चाशत्सहस्राणि रुप्यकाणि च देहि | अवशिष्टं त्वं स्वीकुरु | इयम् एव तव मृतमित्रस्य इच्छा" इति |

-ज्योति गावडे

  

Friday, February 17, 2017

शिवराजस्य राजमुद्रा

शिवराजस्य विषये नानाविधा: कथा: प्रसिद्धा: सन्ति | कथाभ्य: तस्य वीरता च धर्मसहिष्णुता च दूरदृष्टि: च सहजतया दृश्यते | परन्तु तस्य अन्याम्  एकां विशेषतां बहुजना: प्राय: न जानन्ति | स: संस्कृतभाषां प्राकृतभाषां  च पुरसकरोत् | तस्मिन् समये औरङ्गजेब आदिलशाह निजामशाह कुतुबशाह च म्लेच्छा: राज्यकर्तार: आसन् | तेषां प्रभावात् बहव: उर्दूभाषाशब्दा: प्रचलिता: सन्ति | शिवराज:  तान् संस्कृत वा प्राकृतभाषायां पुन:परिवर्तितुम् विशेषेण प्रयत्नं अकरोत् | तस्य आदेशेन रघुनाथपन्तहणमन्तेनाम पण्डित: राज्यव्यवहारकोषम् निरमात् यत्र स: राज्यव्यवहाराय ये शब्दा: आवश्यका: तान् संस्कृतभाषया अलिखम् यथा चाकरस्य स्थाने सेवक: गर्मस्य स्थाने उष्ण: इति | शिवराजस्य राजमुद्रा अपि संस्कृतेन लिखिता आसीत्  यत् प्रतिपच्चन्द्रलेखेव वर्धिष्णु विश्ववन्दिता शाहसुनो: शिवस्यैषा मुद्रा भद्राय राजते | या प्रतिपदि चन्द्रलेखा इव वर्धते यां विश्व: वन्दते च एषा शाहस्य पुत्रस्य शिवस्य मुद्रा जनानाम् कल्याणार्थं राजते इति |

- ज्योति गावडे


Wednesday, February 15, 2017

केतकपुष्पवल्ली

व्यालाश्रयापि विफलापि सकण्टकापि  
वक्रापि पङ्किलभवापि दुरासदापि
गन्धेन बन्धुरिह केतकपुष्पवल्ली 
एको गुण: खलु निहन्ति समस्तदोषान् |

व्यालाश्रयया केतकपुष्पवल्ल्या क्रूरा: व्याला: आश्रिता: ​सन्ति | विफलाया: तस्या: फलानि अपि न प्राप्तुं शक्यते | सकण्टकायां तस्यां कण्टका: अस्ति |  पङ्किलभवाया: तस्या: उद्भव: पन्किले भवति  | वक्रतया वर्धन्ती सा वक्रा अस्ति | दुरासदाम् तां कष्टेन एव द्रष्टुं शक्यते |  यद्यपि तस्या: एते दुर्गुणा: तथापि सुगन्धितपुष्पायां तस्यां सर्वे स्निह्यन्ति | तस्या: पुष्पाणां गन्धेन जना: तस्या: अन्यान् दुर्गुणान् विस्मरन्ति | सा इह बन्धु: भवति | एकेन गुणेन अपि समस्तानाम् दोषानाम् निवारणम् भवितुम् अर्हति खलु | 

Thursday, February 9, 2017

राजहंस:

कस्मिन्श्चित् सरसि अनेके कादंबशिशव: आसन् |  श्वेतवर्णिषु तेषु एक: शिशु: कृष्णवर्णी आसीत् | सर्वे तं अपीडयन् | तेषां कटुवचसा अवमता एकाकिना तेन स्वस्य वर्ण: एव दोष: इति स्वीकृतं | पयसि स्वस्य प्र्तिबिम्बदर्शनम् अपि त्यक्तवान् स: | सर्वान् विहाय स: एकाकि एव अखेलत् | कालान्तरेन वयसा वपुषा च सर्वे युवान: अभवन् | एकस्मिन् दिने स: अवागच्छत् यत् जना: अन्येषां कादम्बानाम् अपेक्षया तं अधिकेन उत्साहेन पश्यन्ति, अन्यान् जनान् दर्शयन्ति च | एतद् किमर्थं इति ज्ञातुं स: एकवारं अम्भसि पश्यामि इति अचिन्तयत् | अहो आश्चर्यं | स: अपश्यत् स: तु अतिश्वेतवर्णी सुष्ठु: राजहंस: आसीत् | अतिमुदा स: तत: अन्यस्य सरस: दिशि यत्र बहव: राजहंसा: आसन् तत्र उड्डयनम् अकरोत् |     


- ज्योति गावडे

Tuesday, January 31, 2017

न् ब्रूयात् सत्यमप्रियम्

एकदा एक: राजा तस्य भवित्कालम् ज्ञातुम् ऐच्छत् । स: समस्तान् ज्योतिषिकान् आह्वयत्। प्रथम: आगत: ज्योतिषिक: अवदत् "भवत: भवित्काल: दु:खमय: भविष्यति। सर्वे आप्तजना: भवत: पूर्वम् एव दिवङ्गता: भविष्यन्ति । एतत् श्रुत्वा क्रुद्ध: राजा "धिक् त्वाम् मूर्खम्" उक्त्वा तम् ज्योतिषिकम् कारागृहम् अप्रेषयत् । तस्मात् पर: अन्य केपि ज्योतिषिका: आगत्य तेन सदृशम् भवितव्यम् एव अब्रुवन्। सर्वे अपि राज्ञा  कारागृहम् प्रति प्रेषिता:। एतत् ज्ञात्वा एक: चतुर: ज्योतिषिक: राज्ञ: समीपे गत्वा अवदत् "अलम् चिन्तया राजन् । भवत: भवित्काल: उज्वल: । भवान् तु दीर्घायु: भविष्यति । प्रियजनाभि: सह अन्तकालपर्यन्तम् स्थास्यति । तेषाम् पीडायाम् साहाय्यम् करिष्यति च। तस्य वचनेन प्रसन्न: राजा ज्योतिषिकम् अपृच्छत् "किम् पारितोषिकम् इच्छसि इति। ज्योतिषिक: अवदत् "राजन् कृपया चिन्तयतु। अहम् अन्यै: ज्योतिषकै: सदृशम् भवितव्यम् एव उक्तवान् । भेद: केवलम् कथनशैल्याम् अस्ति"। अत: वद्यते

सत्यम् ब्रूयात् प्रियम् ब्रूयात् न् ब्रूयात् सत्यमप्रियम्।
प्रियम् च नान्रुतम् ब्रूयात् एष: धर्म: सनातन:।  

इति । राजा तत् अङ्गीक्रुत्य अधिकया प्रसन्नतया सर्वान् मुक्तम् अकरोत् । 

-ज्योति गावडे 

नूतनश्लोक:

राज्ञ: भोजस्य संसदि एकपाठी द्विपाठी त्रिपाठी च विद्वांस: आसन् | एकदा राजा अघोषयत् य: नूतनश्लोकं रचयिष्यति तस्मै अहं सहस्राणि सुवर्णनाणकानि ददामि इति| तत्श्रुत्वा अनेके कवय: नूतनश्लोकान् रचित्वा श्रावयितुं आगच्छन् | यदा ते श्लोकान् अवदन् एकपाठी तान् स्मृत्वा अन्ववदत् | तदनन्तरं द्विपाठी अनन्तरं त्रिपाठी च तम् स्मृत्वा अन्ववदताम् | अत: तान् श्लोकान् पुरातनान्  चिन्तयित्वा राजा कस्मैपि पारितोषिकं न अददात् | एक: कवि: कालिदासस्य समीपं अगच्छत् तस्य साहाय्यम् अपृच्छत् | कालिदास: तं एकं उपायं अवदत् | कवि: पराह्ने संसदं गत्वा एतस्मिन् अर्थे श्लोकं अवदत् "हे राजन्, भवत: पिता मम पितु: एकलक्षं सुवर्णनाणकानि स्वीकृतवान् परन्तु ऋणपूर्त्या: पूर्वमेव स: दिवंगत: | अत: भवान् तत् धनं मह्यं दत्वा पितरं ऋणमुक्तम् करोतु इति मम प्रार्थना |" | एतं श्लोकं पुरातनम् वदति चेत् एकलक्षं सुवर्णनाणकानि दत्वा ऋणपूर्ती आवश्यकी | नो चेत् सहस्रसुवर्णानाणकपारितोषिकदानं आवश्यकम् इति चिन्तयित्वा राजा तस्मै पारितोषिकं एव अददात् |


- ज्योति गावडे

Tuesday, January 24, 2017

पञ्चवकारा:

वस्त्रेण वपुषा वाचा विद्यया विनयेन च
वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम्


केऽपि जना: वपुषा इत्युक्ते शरीरसौष्ठवेन आकर्षका: भवन्ति | अन्ये केऽपि वस्त्रेण मनोहारिण: भवन्ति | रुपसंपद नास्ति चेत् य: वाचा मधुर: अस्ति प्रियवादी अस्ति च स: अपि जनेभ्य: रोचते | कोपि विद्वान् अस्ति चेत तस्मिन् जना: आदरं दर्शयन्ति| विनयशालिन: अपि सर्वप्रिया: सन्ति | एतै: पञ्चभि: वकारै एव जना: जगति गौरवं प्राप्नुवन्ति  | धनसंपदा केऽपि बहून् अनुयायिन: प्राप्तुं शक्नुवन्ति | एवमेव बलिन: | परन्तु ते गौरवम्  न आयान्ति


- ज्योति गावडे