पाणिने: अष्टाध्याय्याम् व्याकरणनियमा: अतिसङ्क्षिप्तरुपेण दत्ता: आसन् |
स: आरम्भे माहेश्वरसूत्राणि नाम स्वरव्यञ्जनयो: विशिष्ठान् समूहान्
अयोजयत् |प्रत्येके सूत्रे अनुबन्ध: नाम अन्तिमवर्ण: अस्ति |
कस्माच्चित् सूत्रात् अनुबन्धं विहाय कञ्चिदपि वर्णं स्वीकृत्य
तत्परं कञ्चिदपि अनुबन्धं योजयित्वा य: द्विवर्णीय: शब्द: भवति तस्य
प्रत्याहार: इति संज्ञा |उदा. "इक्" प्रत्याहार: 'इ' वर्णात् आरभ्य 'क्'
अनुबन्धपर्यन्तम् अनुबन्धान् विहाय सर्वान् वर्णान् बोधयति | तथैव "यण्"
प्रत्याहार: 'य' वर्णात् आरभ्य 'ण्' अनुबन्धपर्यन्तं, "अच्" प्रत्याहार:
'अ' वर्णात् आरभ्य 'च्' अनुबन्धपर्यन्तं सर्वान् वर्णान् बोधयति |
अष्टाध्याय्या: षष्टमे अध्याये प्रथमे पादे सप्तसप्ततितमे सूत्रे इमे त्रय:
प्रत्याहारा: सन्ति | "इकोयणचि" नाम अस्मिन् सूत्रे "इक्" प्रत्याहारात्
कश्चित् वर्णस्य अनन्तरं "अच्" प्रत्याहारस्य कोऽपि वर्ण: आगच्छति चेत्
तस्य स्थाने "यण्" प्रत्याहारे क्रमश: य: वर्ण: अस्ति तम् योजयतु इति
उपदेश:|
उदा. पितृ पदस्य तृतीयाविभक्त्या: एकवचनप्रत्ययम् | तत्र पितृ पदस्य ऋकारात् अनन्तरम् आ आगच्छति | अत: इक् प्रत्याहारत: ऋ इति तृतीय वर्णस्य स्थाने यण् प्रत्याहारत: तृतीय वर्ण: 'र' आगच्छति | अत: तस्य तृतीयाएकवचनं "पित् + र + आ = पित्रा" भवति | तथैव मत्या, धेन्वा च |

No comments:
Post a Comment