हरि: नाम्न: एक: कृषक: एकं कूपम् अक्रिणत् | य: कूपम् अविक्रयत् स: भानु:
नाम्न: महाधूर्त: | अग्रिम दिने हरि: जलम् नेतुं कूपम् प्रति अगच्छत् तदा
भानु: तां अवदत् "भो: हरे! कं प्रष्टुम् जलं नयसि | एतत् तु मम जलम्" इति |
हरि: अवदत् "भानो! किं एवं वदसि ? ह्य: एव अहं
एतं कूपम् त्वत् अक्रीणं किल?" भानु: अवदत् "अहं कूपम् एव अविक्रयं | तस्य
जलं न अविक्रयं | यत: जलं अपि इच्छसि अधिकं मूल्यं ददातु इति | निराश:
हरि: न्यायालयं गत्वा तस्य आक्षेप: अकथयत् | न्यायाधीश:
महाचतुर: | स: भानुं आह्वयत् अवदत् च "हरि: कूप: एव अक्रिणत् खलु | जलं
तस्य एव अस्ति | परन्तु जलं सङ्ग्रहितुं त्वं हरे: कूपम् उपयुज्यसि अत:
तस्य भाटकम् आवश्यकम्" | तं ददातु अन्यथा कूपं रिक्तं कुर्वन्तु" इति | भानु: अवदत् "भो: जलं हरिने एव ददातु यत:अहं कूपं रिक्तं कर्तुं न शक्नोमि" |
-ज्योति गावडे
-ज्योति गावडे