कस्मिन्स्चित् नगरे कश्चित् बहुरुपी आसीत् | स: कानिचन रूपाणि (धारयन्) धृत्वा जनानां मनोरञ्जनम् कृत्वा स्वस्य उदरनिर्वाहं करोति स्म | कस्मिन्स्चित् दिने स: किञ्चिदपि धनम् न प्राप्तम् | कस्माच्चित् धनिकात् दानम् याचयामि इति चिन्तयित्वा स: आपणम् अगच्छत् | तत्र कस्यचित् धनिकस्य शकटम् गच्छन् आसीत् | कथंचित् तं रोधित्वा स: धनिकं आह्वयत् यत् अहं बहुरुपित्वेन (बहुरुपकत्वेन) उपजीविकां करोमि | अद्य मम कलां दृष्ट्वा अपि केनचित् अपि जनेन धनम् न दत्तं | भवान् पञ्च नाणकानि ददाति चेत् कस्याश्चित् विपण्या: परिवारस्य कृते अन्नं क्रिणामि | धनिक: वदति भो: मां अपि किञ्चन रूपं दर्शयतु | तत् यदि मह्यं रोचते तर्हि न केवलं पञ्च परन्तु पन्चाशत् नाणकानि अपि ददामि इति | बहुरुपी क्षणमात्रं अचिन्तयत् अवदत् च "अस्तु | अद्य मन्दिरे कस्यचित् महत: साधो: आगमनम् अस्ति | इदानीम मम तत्र गन्तव्यम् अस्ति | भवान् अपि विपण्या: कार्यं समाप्य तस्य दर्शनं करोतु | अहं अनन्तरं भवत: गृहं आगत्य भवन्तं मम किमपि रूपं दर्शयामि इति |
बहुरूपी तत: प्रतिष्ठते | धनिक: अपि कार्याणि समाप्य ऊहते साधुपुरुषा: क्वचिदेव अत्र आगमनं कुर्वन्ते | अहं निश्चितेन तस्य दर्शनाय प्रयते इति | यदा धनिक: मन्दिरं (प्राप्यते) तदा बहुजना: तत्र साधुम् अर्चयन्ते | तस्य कृते नैवेद्यं, वस्त्राणि धनं च ददते | ध्यानमग्न: साधू: तान् उपहारान् एकवारम् अपि न ईक्षते | धनिक: साधुं वन्दते | स: तं शतनाणकानि अर्पयित्वा गृहस्य प्रति प्रयाणं कुरुते | तस्य पृष्ठत: साधू अपि तत्र आगत्य धनिकं सङ्गच्छते | साधु: तदा स्वस्य सत्यरूपं विवृणुते |
स: तु बहुरूपी एव वर्तते | स: धनिकेन दत्तानि शतनाणकानि अपि धनिकाय प्रतिदत्ते | आश्चर्यचकित: धनिक: भाषते "भो: किमर्थं शतनाणकानि त्यक्त्वा पञ्चाशत नाणकानि स्वीकर्तुम् अत्र आगमनं कुरुषे?" | बहुरूपी ब्रूते "अहं तु साधु इव महान् न वर्ते | परन्तु व्यवसायं प्रति मम साधुत्वम् विद्यते | यदि अहं रुपान्तरेण यत् लभे तत् स्वीकुर्वे तर्हि अहं वञ्चक: अहं बहुरूपी न | जना: मम कौशलम् अपि न जानते यत: अहं जनान् मम सत्यरूपम् अपि दर्शयितुं न शक्नोमि" इति | धनिक: एतत् श्रुत्वा मोदते | स: बहुरूपिणे शतनाणकानि दत्ते |