अयं धनवान् हरि: | अस्य पुत्र: जगजित् | हरे: पुत्रप्राप्ति: बहुकालेन अभवत् अत: यद्यपि हरि: वृद्ध: अभवत् तथापि जगजित् बाल: एव | हरे: सुहृत् सुधांशु: | सुहृदि हरे: दृढ: विश्वास:| यदा हरे: मृत्युसमय: समीपम् आगच्छत् स: मृत्युपत्रे अलिखत् यत् "मम इदं मित्रं सुधांशु: अस्य जगजित: पालक: भवतु | मम इमां संपदम् अयम् रक्षतु | इमानि कार्याणि सम्यक् करोति चेत् अस्य जगजित: युवाकाले सुधांशु: यत् इच्छति तत् अस्मै जगजिते ददातु | अस्या: संपद: अवशिष्टम् अयं सुधांशु: प्राप्नोतु "| यथा उक्तं सुधांशु: अनया संपदा जगजितम् अष्टादशवर्षपर्यन्तं लालयति पालयति च |
अनुवर्तते |
यदा संपद: विभजनसमय: आगच्छत् सुधांशो: मनसि लोभ: उदभवत् | तस्या: संपद: द्वे गृहे, चतुर: भूमिखण्डान्, षड् वृषभा: वृषभान्, अष्टात्रिंशत् धेनू:, पञ्चाशत्सहस्राणि रुप्यकाणि च स: स्व्यकरोत् | यत् अवशिष्टं एकं गृहं, द्वौ भूमिखण्डौ, त्रीन् वृषभा: वृषभान्, चतस्र: धेनू:, पञ्चसहस्राणि रुप्यकाणि च जगजिते अददात् | जगजित् अपृच्छत् "किमर्थम् ईदृशं ईदृशम् अयोग्यम् विभजनम्?" इति | तदा सुधान्शु: तं मृत्युपत्रम् अदर्शयत् अकथयत् च "तव पिता एव माम् असूचयत् यथा इच्छा तथा करोतु" इति | तत् दृष्ट्वा निराश: जगजित् अचिन्तयत् यत् "अयं तु घोर: अन्याय: | कथं मम पिता मृत्युपत्रे ईदृशम् अलिखत्? अस्मिन् किमपि गूढम् गूढं दृश्यते | अस्य नगरस्य विद्वांसं न्यायमूर्तिम् इदं मृत्युपत्रं दर्शयामि पृच्छामि द्रक्ष्यामि दर्शयिष्यामि प्रक्ष्यामि च" |
अनुवर्तते |
न्यायमूर्ति: इमां वार्ताम् अश्रुणोत् मृत्युपत्रं मृत्युपत्रम् अपश्यत् च | स: सुधांशुम् आह्वयत् | तम् अवदत् "भो: इयं संपद् तु जगजित: पितु: | वस्तुत: अस्या: स्वामि स्वामी तु जगजित् एव | तस्य पालनार्थम् अस्या: स्वल्पभागं स्वीकुरु | अवशिष्टं जगजिते देहि" | इति | चतुर: सुधांशु: अवदत् "भो: मम मित्रम् अजानात् पुत्रपालनम् कीदृशं कठीणं कार्यं अत: यथेच्छ यथेच्छम् मूल्यम् स्वीकर्तुं स्वीकुरु इति स: माम् असूचयत् | मम मृतस्य मित्रस्य इच्छाम् अहम् कथं त्यजामि" | इति | न्यायमूर्ति: तस्मात् अपि (तस्य अपेक्षया) चतुर: (तेषु चतुरतर:) | स: अपृच्छत् "अस्तु| त्वम् स्वस्य कृते किम् इच्छसि?" इति | सुधांशु: अवदत् "द्वे गृहे, चतुर: भूमिखण्डान्, षट् वृषभान्, धेनूनाम् अष्टात्रिंशत्, पञ्चाशत्सहस्राणि रुप्यकाणि च इच्छामि" इति | न्यायमूर्ति: अवदत् "अस्तु | मृत्युपत्रे एवमेव लिखितम् यत् त्वम् इच्छसि तत् अस्मै जगजिते ददातु इति | अत: जगजिते द्वे गृहे, चतुर: भूमिखण्डान्, षड् वृषभा: वृषभान्, अष्टात्रिंशत् धेनू:, पञ्चाशत्सहस्राणि रुप्यकाणि च देहि | अवशिष्टं त्वं स्वीकुरु | इयम् एव तव मृतमित्रस्य इच्छा" इति |
-ज्योति गावडे