शिवराजस्य विषये नानाविधा: कथा: प्रसिद्धा: सन्ति | कथाभ्य: तस्य वीरता च धर्मसहिष्णुता च दूरदृष्टि: च सहजतया दृश्यते | परन्तु तस्य अन्याम् एकां विशेषतां बहुजना: प्राय: न जानन्ति | स: संस्कृतभाषां प्राकृतभाषां च पुरसकरोत् | तस्मिन् समये औरङ्गजेब आदिलशाह निजामशाह कुतुबशाह च म्लेच्छा: राज्यकर्तार: आसन् | तेषां प्रभावात् बहव: उर्दूभाषाशब्दा: प्रचलिता: सन्ति | शिवराज: तान् संस्कृत वा प्राकृतभाषायां पुन:परिवर्तितुम् विशेषेण प्रयत्नं अकरोत् | तस्य आदेशेन रघुनाथपन्तहणमन्तेनाम पण्डित: राज्यव्यवहारकोषम् निरमात् यत्र स: राज्यव्यवहाराय ये शब्दा: आवश्यका: तान् संस्कृतभाषया अलिखम् यथा चाकरस्य स्थाने सेवक: गर्मस्य स्थाने उष्ण: इति | शिवराजस्य राजमुद्रा अपि संस्कृतेन लिखिता आसीत् यत् प्रतिपच्चन्द्रलेखेव वर्धिष्णु विश्ववन्दिता शाहसुनो: शिवस्यैषा मुद्रा भद्राय राजते | या प्रतिपदि चन्द्रलेखा इव वर्धते यां विश्व: वन्दते च एषा शाहस्य पुत्रस्य शिवस्य मुद्रा जनानाम् कल्याणार्थं राजते इति |
- ज्योति गावडे
- ज्योति गावडे
No comments:
Post a Comment