Tuesday, January 31, 2017

न् ब्रूयात् सत्यमप्रियम्

एकदा एक: राजा तस्य भवित्कालम् ज्ञातुम् ऐच्छत् । स: समस्तान् ज्योतिषिकान् आह्वयत्। प्रथम: आगत: ज्योतिषिक: अवदत् "भवत: भवित्काल: दु:खमय: भविष्यति। सर्वे आप्तजना: भवत: पूर्वम् एव दिवङ्गता: भविष्यन्ति । एतत् श्रुत्वा क्रुद्ध: राजा "धिक् त्वाम् मूर्खम्" उक्त्वा तम् ज्योतिषिकम् कारागृहम् अप्रेषयत् । तस्मात् पर: अन्य केपि ज्योतिषिका: आगत्य तेन सदृशम् भवितव्यम् एव अब्रुवन्। सर्वे अपि राज्ञा  कारागृहम् प्रति प्रेषिता:। एतत् ज्ञात्वा एक: चतुर: ज्योतिषिक: राज्ञ: समीपे गत्वा अवदत् "अलम् चिन्तया राजन् । भवत: भवित्काल: उज्वल: । भवान् तु दीर्घायु: भविष्यति । प्रियजनाभि: सह अन्तकालपर्यन्तम् स्थास्यति । तेषाम् पीडायाम् साहाय्यम् करिष्यति च। तस्य वचनेन प्रसन्न: राजा ज्योतिषिकम् अपृच्छत् "किम् पारितोषिकम् इच्छसि इति। ज्योतिषिक: अवदत् "राजन् कृपया चिन्तयतु। अहम् अन्यै: ज्योतिषकै: सदृशम् भवितव्यम् एव उक्तवान् । भेद: केवलम् कथनशैल्याम् अस्ति"। अत: वद्यते

सत्यम् ब्रूयात् प्रियम् ब्रूयात् न् ब्रूयात् सत्यमप्रियम्।
प्रियम् च नान्रुतम् ब्रूयात् एष: धर्म: सनातन:।  

इति । राजा तत् अङ्गीक्रुत्य अधिकया प्रसन्नतया सर्वान् मुक्तम् अकरोत् । 

-ज्योति गावडे 

नूतनश्लोक:

राज्ञ: भोजस्य संसदि एकपाठी द्विपाठी त्रिपाठी च विद्वांस: आसन् | एकदा राजा अघोषयत् य: नूतनश्लोकं रचयिष्यति तस्मै अहं सहस्राणि सुवर्णनाणकानि ददामि इति| तत्श्रुत्वा अनेके कवय: नूतनश्लोकान् रचित्वा श्रावयितुं आगच्छन् | यदा ते श्लोकान् अवदन् एकपाठी तान् स्मृत्वा अन्ववदत् | तदनन्तरं द्विपाठी अनन्तरं त्रिपाठी च तम् स्मृत्वा अन्ववदताम् | अत: तान् श्लोकान् पुरातनान्  चिन्तयित्वा राजा कस्मैपि पारितोषिकं न अददात् | एक: कवि: कालिदासस्य समीपं अगच्छत् तस्य साहाय्यम् अपृच्छत् | कालिदास: तं एकं उपायं अवदत् | कवि: पराह्ने संसदं गत्वा एतस्मिन् अर्थे श्लोकं अवदत् "हे राजन्, भवत: पिता मम पितु: एकलक्षं सुवर्णनाणकानि स्वीकृतवान् परन्तु ऋणपूर्त्या: पूर्वमेव स: दिवंगत: | अत: भवान् तत् धनं मह्यं दत्वा पितरं ऋणमुक्तम् करोतु इति मम प्रार्थना |" | एतं श्लोकं पुरातनम् वदति चेत् एकलक्षं सुवर्णनाणकानि दत्वा ऋणपूर्ती आवश्यकी | नो चेत् सहस्रसुवर्णानाणकपारितोषिकदानं आवश्यकम् इति चिन्तयित्वा राजा तस्मै पारितोषिकं एव अददात् |


- ज्योति गावडे

Tuesday, January 24, 2017

पञ्चवकारा:

वस्त्रेण वपुषा वाचा विद्यया विनयेन च
वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम्


केऽपि जना: वपुषा इत्युक्ते शरीरसौष्ठवेन आकर्षका: भवन्ति | अन्ये केऽपि वस्त्रेण मनोहारिण: भवन्ति | रुपसंपद नास्ति चेत् य: वाचा मधुर: अस्ति प्रियवादी अस्ति च स: अपि जनेभ्य: रोचते | कोपि विद्वान् अस्ति चेत तस्मिन् जना: आदरं दर्शयन्ति| विनयशालिन: अपि सर्वप्रिया: सन्ति | एतै: पञ्चभि: वकारै एव जना: जगति गौरवं प्राप्नुवन्ति  | धनसंपदा केऽपि बहून् अनुयायिन: प्राप्तुं शक्नुवन्ति | एवमेव बलिन: | परन्तु ते गौरवम्  न आयान्ति


- ज्योति गावडे