वस्त्रेण वपुषा वाचा विद्यया विनयेन च
वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम्
वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम्
केऽपि जना: वपुषा इत्युक्ते शरीरसौष्ठवेन आकर्षका : भवन्ति | अन्ये केऽपि वस्त्रेण मनोहारिण: भवन्ति | रुपसंपद नास्ति चेत् य: वाचा मधुर: अस्ति प्रियवादी अस्ति च स: अपि जनेभ्य: रोचते | कोपि विद्वान् अस्ति चेत तस्मिन् जना: आदरं दर्शयन्ति| विनयशालिन: अपि सर्वप्रिया: सन्ति | एतै: पञ्चभि: वकारै एव जना: जगति गौरवं प्राप्नुवन्ति | धनसंपदा केऽपि बहून् अनुयायिन: प्राप्तुं शक्नुवन्ति | एवमेव बलिन: | परन्तु ते गौरवम् न आयान्ति|
- ज्योति गावडे
- ज्योति गावडे
No comments:
Post a Comment