राज्ञ: भोजस्य संसदि एकपाठी द्विपाठी त्रिपाठी च विद्वांस: आसन् | एकदा राजा अघोषयत् य: नूतनश्लोकं रचयिष्यति तस्मै अहं सहस्राणि सुवर्णनाणकानि ददामि इति| तत्श्रुत्वा अनेके कवय: नूतनश्लोकान् रचित्वा श्रावयितुं आगच्छन् | यदा ते श्लोकान् अवदन् एकपाठी तान् स्मृत्वा अन्ववदत् | तदनन्तरं द्विपाठी अनन्तरं त्रिपाठी च तम् स्मृत्वा अन्ववदताम् | अत: तान् श्लोकान् पुरातनान् चिन्तयित्वा राजा कस्मैपि पारितोषिकं न अददात् | एक: कवि: कालिदासस्य समीपं अगच्छत् तस्य साहाय्यम् अपृच्छत् | कालिदास: तं एकं उपायं अवदत् | कवि: पराह्ने संसदं गत्वा एतस्मिन् अर्थे श्लोकं अवदत् "हे राजन्, भवत: पिता मम पितु: एकलक्षं सुवर्णनाणकानि स्वीकृतवान् परन्तु ऋणपूर्त्या: पूर्वमेव स: दिवंगत: | अत: भवान् तत् धनं मह्यं दत्वा पितरं ऋणमुक्तम् करोतु इति मम प्रार्थना |" | एतं श्लोकं पुरातनम् वदति चेत् एकलक्षं सुवर्णनाणकानि दत्वा ऋणपूर्ती आवश्यकी | नो चेत् सहस्रसुवर्णानाणकपारितोषिकदानं आवश्यकम् इति चिन्तयित्वा राजा तस्मै पारितोषिकं एव अददात् |
- ज्योति गावडे
- ज्योति गावडे
No comments:
Post a Comment