Friday, May 26, 2017

लभेत सिकतासु तैलमपि यत्नतः पीडयन्

लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासर्दितः ॥
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥

यदि त्वं बहुप्रयासेन सिकतां पिनष्टि तर्हि प्राय: तासु तैलं लभेथा: |
पिपासया त्रस्तौ सति युवां प्राय: मृगजलात् अपि सलिलं पिबेयाथाम् |
पर्यटन्तौ जनौ कदाचित् शशकस्य शृङ्गं अपि वीक्ष्येयाताम् |
किन्तु ये जना: मूर्खताया: प्रति निविष्टा: तेषां चित्तं यूयं कदापि न परिवर्तेध्वम् |
अत: तादृशा: प्रयत्ना: आवा: मा क्रियेवहि एव |



Saturday, May 20, 2017

वृद्धकुमारीवाक्यन्याय:

वृद्धकुमारीवाक्यन्याय:

कदाचित् कोपि अविवाहिता वृद्धा इन्द्रात् एकं वरदानं अलभत  | स: वररूपेण व्यज्ञापयत यत् पुत्रा मे बहुक्षीरघृतमोदनं काञ्चनपात्र्यां भुञ्जीरन् | पश्यन्तु एकेन एव वरेण सा किं किं लभेत | प्रथमं कोपि तया सह विवाहं कुर्यात | तदनन्तरं तस्या: पुत्रा: जायेरन् |  तस्या: गृहे बहव्य: धेनव: वर्तेरन् | तासां दुग्धं च घृतं च कदापि मा क्षयेताम् | धनं च धान्यं च विपुलानि वर्तेताम् | तर्हि तस्य पुत्रा: सुवर्णपात्रेभ्य: \ पात्रेषु बहुक्षीरघृतमोदनं भुञ्जीरन् | सा तं  वरं अलभत वा न वा इति वयं न जानीम: | परन्तु तादृश कोपि एकेन उक्तेन वाक्येन एव बह्वी: अनुक्ता: इच्छा: प्रदर्शयति तत्र वृद्धकुमारीवाक्यन्याय: इति उच्यते |

Tuesday, May 16, 2017

घटं भिन्द्यात् पटं छिन्द्यात्

घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभारोहणम् |
येन केन प्रकारेण प्रसिद्ध: पुरुषो भवेत् |
गुणिन: जना: तेषां गुणवैशिष्ठेन प्रसिद्धा: भवन्ति | किमपि वैशिष्ठं नास्ति चेत् सहसा प्रसिद्धिं न प्राप्नुयात् | प्रसिद्धिं इच्छन्तौ सामान्यजन: मूर्खजन: च किमपि अविवेकं कार्यं अपि कुर्याताम् | यथा कोपि घटं भिन्द्यात् | अन्य: कोपि धारितं वस्त्रं छिन्द्यात् | केऽपि गर्दभारोहणम् अपि कुर्यु: | येन केन प्रकारेण अहं इतरजनानां चित्तं आकर्षयेम् इति ते चिन्तयन्ति | सुभाषितकार: सूचयति तादृशै: कार्यै: जना: कुप्रसिद्धिं एव प्राप्नुयु: | वयं यदि साधुकर्माणि कुर्याम  तर्हि सुप्रसिद्धिं प्राप्तुं शक्नुयाम | अत: यूयं दानकर्मणा वा सेवाकर्मणा वा सुप्रसिद्धिं प्राप्नुयात |

Tuesday, May 9, 2017

२०५०

२०५०

२०५० तमे वर्षे अस्माकं जीवनं कथं विद्यिष्यते? जनानाम् त्रीणिचतुर्थांश: नगरेषु  वर्तिष्यन्ते | कृषिवला: ग्रामेभ्य: प्रस्थास्यन्ते नगराणि अयिष्यन्ते च | नगरेषु उन्नतेषु भवनेषु सस्यानि वर्धिष्यन्ते | हे अपर्णे त्वं च राहुल: च तत्र अपर्युषितम्\अभिनवं\अयातयामं शाकानि निरन्तरं लभिष्येथे| 

कल्पना श्रीधरमहोदय: च यदि "किं भोजनं" इति उहिष्येते तर्हि यन्त्रमानव: अनेके पर्याया: भाषिष्यते | इष्टभोजनम्  पक्त्वा तौ निमन्त्रयिष्यते |

पूर्णतया स्वयंचलितानि वाहनानि इतस्तत: डयिष्यन्ते | वाहनेन अपघातस्य शक्यता अतिन्यूनम् विद्दिष्यते | अहं दीपाली च द्विचक्रिकया महामार्गेभ्य: अपि मोदेन भ्रमणम् करिष्यावहे |

कोदेयि,  त्वं च तव गुरुबान्धवा: च तव गुरुमाताया: सचेतनप्रतिकृतिम् आलोकयिष्यध्वे तया सह चिन्तनम् करिष्यध्वे च |  
 वासुकिमहोदयस्य सचेतनप्रतिकृति संस्कृतम् शिक्षिष्यते | विनोद: विरामकाले अवकाशयानेन भ्रमन् संस्कृतं अधीष्यते |  
 आकाश: बहुतांशेन सौर-ऊर्जा-पटेन वरिष्यन्ते | तेन ऊर्जा जायिष्यते अपि तु  स: जनान् अतिनीलकिरणात् त्रायिष्यते | रात्रौ पटस्य पिधानं कृत्वा वयम् आकाशे चन्द्रतारकान् ईक्षिष्यामहे |