कस्मिन्श्चित् सरसि अनेके कादंबशिशव: आसन् | श्वेतवर्णिषु तेषु एक: शिशु: कृष्णवर्णी आसीत् | सर्वे तं अपीडयन् | तेषां कटुवचसा अवमता एकाकिना तेन स्वस्य वर्ण: एव दोष: इति स्वीकृतं | पयसि स्वस्य प्र्तिबिम्बदर्शनम् अपि त्यक्तवान् स: | सर्वान् विहाय स: एकाकि एव अखेलत् | कालान्तरेन वयसा वपुषा च सर्वे युवान: अभवन् | एकस्मिन् दिने स: अवागच्छत् यत् जना: अन्येषां कादम्बानाम् अपेक्षया तं अधिकेन उत्साहेन पश्यन्ति, अन्यान् जनान् दर्शयन्ति च | एतद् किमर्थं इति ज्ञातुं स: एकवारं अम्भसि पश्यामि इति अचिन्तयत् | अहो आश्चर्यं | स: अपश्यत् स: तु अतिश्वेतवर्णी सुष्ठु: राजहंस: आसीत् | अतिमुदा स: तत: अन्यस्य सरस: दिशि यत्र बहव: राजहंसा: आसन् तत्र उड्डयनम् अकरोत् |
- ज्योति गावडे
- ज्योति गावडे
No comments:
Post a Comment