एकदा कृष्ण: तस्य द्वाभ्यां पत्नीभ्यां सह वार्तालापं अकरोत् | सत्यभामा अपृच्छत् यत् 'भवान् मां कीदृशं स्निह्यति" | कृष्ण अवदत् यत् "अहं भवत्या मिष्टान्नसदृशं स्निह्यामि" | सत्यभामा प्रसन्ना भूत्वा तत: निरागच्छत् | रुक्मिणी अपि तदेव अपृच्छत् | कृष्ण अवदत् यत् "अहं भवत्या लवणसदृशं स्निह्यामि" | तत् श्रुत्वा असन्तुष्टा रुक्मिणी अपि तत: निरागच्छत् | तत्पश्चात् भोजनसमये सेवका: शाकाणि, व्यञ्जनानि, मिष्टान्नानि च पर्यवेषयन् | शाकेषु व्यञ्जनेनषु च् लवणम् न आसीत् | सर्वे अवदन् यत् लवणं ददातु | सेवक: अवदत् अद्य लवणं समाप्तम्, लवणेन विना खादितुम् न इच्छन्ति चेत् कृपया मिष्टान्नानि एव आस्वाद्य भोजनं समापयतु इति | सर्वे अवदन् "व्यञ्जनानि शाकानि आवश्यकं, मिष्टान्नै: उदरभरणम् कथं भवेत् ?" इति | तत्क्षणे रुक्मिणी अवागच्छत् यत् कृष्णस्य तां प्रति कियत् प्रीति आसीत् |सा कृष्णं प्रार्थ्य सर्वान् लवणं दातुं सेवकान् आदिशत् |
-ज्योति गावडे
No comments:
Post a Comment