Friday, February 24, 2017

यत् इच्छसि तत् ददातु

अयं धनवान् हरि: | अस्य पुत्र: जगजित्  | हरे: पुत्रप्राप्ति: बहुकालेन अभवत्  अत: यद्यपि हरि: वृद्ध: अभवत् तथापि जगजित् बाल: एव  | हरे: सुहृत् सुधांशु: | सुहृदि हरे: दृढ: विश्वास:| यदा हरे: मृत्युसमय: समीपम् आगच्छत् स: मृत्युपत्रे अलिखत् यत् "मम इदं मित्रं सुधांशु: अस्य जगजित: पालक: भवतु | मम इमां संपदम् अयम् रक्षतु | इमानि कार्याणि सम्यक् करोति चेत् अस्य जगजित: युवाकाले सुधांशु: यत् इच्छति तत् अस्मै जगजिते ददातु | अस्या: संपद: अवशिष्टम् अयं सुधांशु: प्राप्नोतु "| यथा उक्तं सुधांशु: अनया संपदा जगजितम् अष्टादशवर्षपर्यन्तं लालयति पालयति च |

अनुवर्तते |

यदा संपद: विभजनसमय: आगच्छत् सुधांशो: मनसि लोभ: उदभवत् | तस्या: संपद: द्वे गृहे, चतुर: भूमिखण्डान्, षड् वृषभा: वृषभान्, अष्टात्रिंशत् धेनू:, पञ्चाशत्सहस्राणि रुप्यकाणि च स: स्व्यकरोत् |  यत् अवशिष्टं एकं गृहं, द्वौ भूमिखण्डौ, त्रीन्  वृषभा: वृषभान्, चतस्र: धेनू:, पञ्चसहस्राणि रुप्यकाणि च जगजिते अददात् | जगजित् अपृच्छत् "किमर्थम् ईदृशं ईदृशम् अयोग्यम् विभजनम्?" इति | तदा सुधान्शु: तं मृत्युपत्रम् अदर्शयत् अकथयत् च "तव पिता एव माम् असूचयत् यथा इच्छा तथा करोतु" इति | तत् दृष्ट्वा निराश: जगजित् अचिन्तयत् यत् "अयं तु घोर: अन्याय: | कथं मम पिता मृत्युपत्रे ईदृशम् अलिखत्? अस्मिन् किमपि गूढम् गूढं दृश्यते | अस्य नगरस्य विद्वांसं न्यायमूर्तिम् इदं मृत्युपत्रं दर्शयामि पृच्छामि द्रक्ष्यामि दर्शयिष्यामि प्रक्ष्यामि च" |

अनुवर्तते |

न्यायमूर्ति: इमां वार्ताम् अश्रुणोत् मृत्युपत्रं मृत्युपत्रम् अपश्यत् च | स: सुधांशुम् आह्वयत् | तम् अवदत् "भो: इयं संपद् तु जगजित: पितु: | वस्तुत: अस्या: स्वामि स्वामी तु जगजित् एव | तस्य पालनार्थम् अस्या: स्वल्पभागं स्वीकुरु | अवशिष्टं जगजिते देहि" | इति | चतुर: सुधांशु: अवदत् "भो: मम मित्रम् अजानात् पुत्रपालनम् कीदृशं कठीणं कार्यं अत: यथेच्छ यथेच्छम्  मूल्यम् स्वीकर्तुं स्वीकुरु इति स: माम् असूचयत् | मम मृतस्य मित्रस्य इच्छाम् अहम् कथं त्यजामि" | इति | न्यायमूर्ति: तस्मात् अपि (तस्य अपेक्षया) चतुर: (तेषु चतुरतर:) | स: अपृच्छत् "अस्तु| त्वम् स्वस्य कृते किम् इच्छसि?" इति |  सुधांशु: अवदत् "द्वे गृहे, चतुर: भूमिखण्डान्, षट् वृषभान्, धेनूनाम् अष्टात्रिंशत्, पञ्चाशत्सहस्राणि रुप्यकाणि च इच्छामि" इति | न्यायमूर्ति: अवदत् "अस्तु | मृत्युपत्रे एवमेव लिखितम् यत् त्वम् इच्छसि तत् अस्मै जगजिते ददातु इति | अत: जगजिते द्वे गृहे, चतुर: भूमिखण्डान्, षड् वृषभा: वृषभान्, अष्टात्रिंशत् धेनू:, पञ्चाशत्सहस्राणि रुप्यकाणि च देहि | अवशिष्टं त्वं स्वीकुरु | इयम् एव तव मृतमित्रस्य इच्छा" इति |

-ज्योति गावडे

  

2 comments:

  1. सम्यक् कथा :) कानिचित् nitpicks

    यदा हरे: मृत्युसमय: समीपम् आगच्छत् तदा अयं मृत्युपत्रे अलिखत् यत् "मम इदं मित्रं सुधांशु: अस्य जगजित: पालक: भवतु | ... (quotes आवश्यकाः)
    मम इमां संपदं अयं रक्षतु |

    यदा संपद: विभजनसमय: आगच्छत् तदा तस्य मनसि लोभ: उदभवत्
    षट् वृषभान् (तृतीयअनुच्छेदे अपि अस्ति)
    त्रीन् वृषभान्
    "किमर्थम् ईदृशम् अयोग्यं (अयुक्तं) विभजनम्?"
    अस्मिन् किमपि गूढं दृश्यते
    अस्य नगरस्य विद्वांसं न्यायमूर्तिम् इदं मृत्युपत्रं द्रक्ष्यामि प्रक्ष्यामि च |

    न्यायमूर्ति: इदम् अश्रुणोत् मृत्युपत्रम् अपश्यत् च |
    वस्तुत: अस्या: स्वामी तु जगजित् एव |
    अवशिष्टं जगजिते देहि" इति (quotes, अपि च तदनन्तरम् इति अस्ति चेत् तत्पूर्वं | आवश्यकता नास्ति )
    यथेच्छं मूल्यम् स्वीकुरु इति
    "त्वं स्वस्य कृते किम् इच्छसि?" इति |

    ReplyDelete
  2. धन्यवाद: दीपाली.
    quotes न आवश्यकम् इति अहं चिन्तयामि परन्तु तथा अस्ति चेत् कुत्र संभाषणम् पूर्णम् भवति तत् न स्पष्टम् | अत: अहं quotes स्थापयामि |
    यदा अस्ति चेत् तदा सर्वदा न आवश्यकम् इति अहं चिन्तयामि|

    ReplyDelete