Sunday, February 26, 2017

रत्नानि कुत्र?

किञ्चित् विशालं राज्यम्| तत्र कश्चन वृध्दः वणिक् आसीत्| कदाचित् सः तस्य केनचित् सुहृदा सह अन्यं ग्रामं गन्तुं प्रयाणं अकरोत्| किञ्चित् कालानन्तरं तयोः पथि चक्रवातः अभवत्| तदा तौ पथः समीपे किञ्चित् पुरातनं धाम अस्ति तत्र रक्षणाय अस्थगयताम्| यदा वणिजः सुहृद् धाम्नि अपश्यत् तदा सः एकं लघुं स्युतं प्राप्नोत्| यदा सः तं स्यूतम् उदघाटयत् तदा अन्तः रत्नाणि अपश्यत्| सः तं रत्नानां स्यूतं वणिजं दर्शयित्वा अवदत् - "प्रायः कस्यचित् अन्यस्य पथिकस्य स्यूतः अस्ति| आवां श्वः पुनरागत्य राज्ञे दास्यावः" इति| वणिक् अवदत् - "भोः निष्कपट सुहृद्, राज्ञे किमर्थं ददावः? तत्स्थाने आवाम् एव अर्धम् अर्धं विभजनं कृत्वा गृह्णीवः" इति| सुहृद् अवदत् - "भवान् अति बुद्धिमान्| तदेव करवाव" इति|

अग्रीमे दिने परान्हे वणिजः सुहृद् राज्ञ: सभां गत्वा एतां घटनां अश्रावयत्, अवदत् च - "वणिक् सर्वाणि रत्नानि अग्रुह्णात्" इति | राजा वणिजं आहूय अपृच्छत् - "भोः वणिक्, तव सुहृदः वाक् सत्या किम्?" इति| वणिक् अवदत् - "न राजन्, अहं पुनरागत्य मध्यान्हे एव सुहृदे अर्धरत्नानि अददाम्" इति | राजा अपृच्छत् - "कोऽपि साक्षी आसीत् तदा?" इति| वणिक् अवदत् - "आम्, मम द्वौ  कर्मकरौ तदा तत्र आस्ताम्| तौ अपश्यताम्" इति| राजा तौ आव्हातुम् आदेशम् अददात्| अनन्तरं वणिजम् अपृच्छत् - "रत्नानां वर्णः कः आसीत्? त्वं कथं रत्नानि सुहृदे अददात्?" इति | वणिक् अवदत् - "रत्नानां वर्णः श्वेतः आसीत्| अहं रक्तवर्णेन स्यूतेन तानि रत्नानि सुहृदे अददाम्" इति | राजा अवदत् - "अस्तु| तत्र शान्तः उपाविश| किमपि मा वद" इति |

यदा वणिजः कर्मकरौ आगच्छतां तदा राजा केवलम् एकं कर्मकरम् अन्तः आह्वयित्वा रत्नानां वर्णः, वणिक् तानि कथं अददात् इति अपृच्छत्| कर्मकरः अवदत् - "रत्नानां वर्णः रक्तः आसीत्| वणिक् तानि हस्ताभ्यां सुहृदे अददात्" इति| राजा अपरं कर्मकरं आह्वयित्वा समानौ प्रश्नौ अपृच्छत्| सः कर्मकरः अवदत् - "रत्नानां वर्णाः भिन्नाः आसन्| वणिक् तानि श्वेतस्य वर्णस्य स्यूते स्थापयित्वा अददात्" इति| राजा अवदत् - "भोः वणिक्, त्वं च, तव कर्मकरौ च असत्यं वदन्ति इति तु स्पष्टम्| सर्वाणि रत्नानि झटिति तव सुहृदे देहि| अपि च दण्डार्थं शतसुवर्णनाणकनि राज्यस्य वित्तकोषे पूरय| पुनश्च एतत् मा कुरु" इति|

दीपाली भागवत

3 comments:

  1. कथं अददात् => कथम् अददात्

    ReplyDelete
  2. प्रयाणं अकरोत् => प्रयाणम् अकरोत्
    वणिजं आहूय => वणिजम् आहूय
    कर्मकरं आह्वयित्वा => कर्मकरम् आह्वयित्वा
    - ज्योति गावडे

    ReplyDelete
  3. एतादृशान् दोषान् इदानीम् अहं न करोमि इति अचिन्तयत् परन्तु तत् असत्यम् :)

    ReplyDelete