किञ्चित् विशालं राज्यम्| तत्र कश्चन वृध्दः वणिक् आसीत्|
कदाचित् सः तस्य केनचित् सुहृदा सह अन्यं ग्रामं गन्तुं प्रयाणं अकरोत्|
किञ्चित् कालानन्तरं तयोः पथि चक्रवातः अभवत्| तदा तौ पथः समीपे किञ्चित्
पुरातनं धाम अस्ति तत्र रक्षणाय अस्थगयताम्| यदा वणिजः सुहृद् धाम्नि
अपश्यत् तदा सः एकं लघुं स्युतं प्राप्नोत्| यदा सः तं स्यूतम् उदघाटयत्
तदा अन्तः रत्नाणि अपश्यत्| सः तं रत्नानां स्यूतं वणिजं दर्शयित्वा अवदत् -
"प्रायः कस्यचित् अन्यस्य पथिकस्य स्यूतः अस्ति| आवां श्वः पुनरागत्य
राज्ञे दास्यावः" इति| वणिक् अवदत् - "भोः निष्कपट सुहृद्, राज्ञे किमर्थं
ददावः? तत्स्थाने आवाम् एव अर्धम् अर्धं विभजनं कृत्वा गृह्णीवः" इति|
सुहृद् अवदत् - "भवान् अति बुद्धिमान्| तदेव करवाव" इति|
अग्रीमे
दिने परान्हे वणिजः सुहृद् राज्ञ: सभां गत्वा एतां घटनां अश्रावयत्, अवदत्
च - "वणिक् सर्वाणि रत्नानि अग्रुह्णात्" इति | राजा वणिजं आहूय अपृच्छत् -
"भोः वणिक्, तव सुहृदः वाक् सत्या किम्?" इति| वणिक् अवदत् - "न राजन्,
अहं पुनरागत्य मध्यान्हे एव सुहृदे अर्धरत्नानि अददाम्" इति | राजा
अपृच्छत् - "कोऽपि साक्षी आसीत् तदा?" इति| वणिक् अवदत् - "आम्, मम द्वौ
कर्मकरौ तदा तत्र आस्ताम्| तौ अपश्यताम्" इति| राजा तौ आव्हातुम् आदेशम्
अददात्| अनन्तरं वणिजम् अपृच्छत् - "रत्नानां वर्णः कः आसीत्? त्वं कथं
रत्नानि सुहृदे अददात्?" इति | वणिक् अवदत् - "रत्नानां वर्णः श्वेतः
आसीत्| अहं रक्तवर्णेन स्यूतेन तानि रत्नानि सुहृदे अददाम्" इति | राजा
अवदत् - "अस्तु| तत्र शान्तः उपाविश| किमपि मा वद" इति |
यदा
वणिजः कर्मकरौ आगच्छतां तदा राजा केवलम् एकं कर्मकरम् अन्तः आह्वयित्वा
रत्नानां वर्णः, वणिक् तानि कथं अददात् इति अपृच्छत्| कर्मकरः अवदत् -
"रत्नानां वर्णः रक्तः आसीत्| वणिक् तानि हस्ताभ्यां सुहृदे अददात्" इति|
राजा अपरं कर्मकरं आह्वयित्वा समानौ प्रश्नौ अपृच्छत्| सः कर्मकरः अवदत् -
"रत्नानां वर्णाः भिन्नाः आसन्| वणिक् तानि श्वेतस्य वर्णस्य स्यूते
स्थापयित्वा अददात्" इति| राजा अवदत् - "भोः वणिक्, त्वं च, तव कर्मकरौ च
असत्यं वदन्ति इति तु स्पष्टम्| सर्वाणि रत्नानि झटिति तव सुहृदे देहि| अपि
च दण्डार्थं शतसुवर्णनाणकनि राज्यस्य वित्तकोषे पूरय| पुनश्च एतत् मा
कुरु" इति|
दीपाली भागवत
कथं अददात् => कथम् अददात्
ReplyDeleteप्रयाणं अकरोत् => प्रयाणम् अकरोत्
ReplyDeleteवणिजं आहूय => वणिजम् आहूय
कर्मकरं आह्वयित्वा => कर्मकरम् आह्वयित्वा
- ज्योति गावडे
एतादृशान् दोषान् इदानीम् अहं न करोमि इति अचिन्तयत् परन्तु तत् असत्यम् :)
ReplyDelete