Sunday, March 5, 2017

क्रीडाचक्रम्


अहं गत वर्षे पञ्चदशानां वर्षानाम् अनन्तरं क्रीडाचक्रं द्रष्टुम् अगच्छम् | तत्र आरम्भे चतुर्षु द्वारेषु चत्वारः कलायनाः आगच्छन् | ते चतस्रभिः रज्जुभिः नेत्रदीपकां क्रीडाम् अकुर्वन् | अनन्तरम् एकः विदुषकः आगच्छत् | सः द्वाभ्यां कलायनाभ्यां सह रज्जुभिः क्रीडां कर्तुं प्रयत्नम् अकरोत् | परन्तु तस्य क्रीडां दृष्ट्वा तौ द्वौ कलायनौ अन्तः अगच्छताम् | तस्मात् परम् द्वयोः द्वारयोः षट् श्वापदाः तेषाम् एकेन स्वामिना सह आगच्छन् | तेषु षटसु श्वापदेषु त्रयः सिंहाः च तिस्त्रः गज्यः च आसन् | ते सर्वेऽपि सम्यक् क्रीडाम् अकुर्वन् परन्तु तिसृणां गजीनाम् अपेक्षया त्रयाणां सिंहानां क्रीडा अधिका रोमान्चिता आसीत् | विदुषकः तु भीत्या त्रिभ्यः सिंहेभ्यः दूरं अधावत् | क्रीडां पश्चात् तेषां स्वामी त्रिभ्यः सिंहेभ्यः मांसखण्डानि च तिसृभ्यः गजीभ्यः पर्णानि च अददात् | अन्ते विदुषकः त्रिभिः कन्दुकैः क्रीडाम् अकरोत् | तत् क्रीडाचक्रं मम अतिमनोरन्जनम् अकरोत् |

दीपाली भागवत

6 comments:

  1. Jyoti: वर्षानाम् अनन्तरं - shashthee atra samyak asti vaa? panchamee vaa dwiteeya iti aham chintayaami.

    मम अतिमनोरन्जनम् अकरोत् praayaH samyak athavaa mam atimanoranjakam abhaasat

    ReplyDelete
    Replies
    1. अहं अपि प्रथमे द्वितीया अलिखम्, अनन्तरं पुस्तके कुत्रचित् दृष्ट्वा षष्ठी अलिखम् | रात्रौ पुनः एकवारं द्रक्ष्यामि |

      Delete
  2. Jyoti: Gajee for female elephant is probably not correct. Dictionary shows gajaNakaa, kariNee, kareNu, vashaa or dhenukaa for female elephant.

    ReplyDelete
    Replies
    1. गजी अपि सम्यक्| आपटे शब्दकोशे अस्ति|
      http://dsalsrv02.uchicago.edu/cgi-bin/philologic/getobject.pl?c.2:1:2321.apte

      Delete
  3. In place of shwaapadaH you can use nakaaraanta PraNin shabdaH :)

    ReplyDelete
    Replies
    1. आम्, वन्य: प्राणी उपयोजितुं शक्नोमि |

      Delete